Book Title: Saptabhangimimansa
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 143
________________ (११) 1 " चेत्, न, तत्परिकल्पन निमित्ताभावात् तथाहि न तावत्सावयवात्मकमन्योन्यनिमित्तकं तत्परिकल्पयितुं युक्तम्, चतुर्थादिवचनविकल्पेषु तस्यान्तर्भावप्रसक्तेः, नापि निरवयकात्मकमन्योन्यनिमित्तकं तत्परिकल्पनामईति प्रथमादिष्वन्तर्भावप्रसक्तेः न च गत्यन्तरमस्तीति नाष्टमनवमादिभङ्गकल्पना युक्ता । किं चामौ क्रमेण वा तद्धर्मद्वयं प्रतिपादयेद्योगपद्येन वा, प्रथमपक्षे गुणप्रधानभावेन तत्प्रतिपादने प्रथमद्वितीययोरन्तर्भावः, प्रधानभावेन तत्प्रतिपादने चतुर्थे, यौगपद्येन तत्पतिपादने तृतीये, भङ्गकसंयोगिमङ्गान्तरकल्पनायां प्रथमद्वितीयसंयोगे चतुर्थ एव प्रसज्यते, प्रथमतृतीयसंयोगात्पञ्चमः, द्वितीयतृतीय संयोगात्पष्ठः, प्रथमद्वितीयतृतीय संयोगात्सप्तमः, प्रथमचतुर्थादिसंयोगकल्पना तु पौनरुक्त्यभयादनुत्थानोपहतैव । न च देशिदेशभेदेन, धर्मिमैदादपौनरुक्त्यम्, प्रथम चतुर्थसमाजादेतादृशप्रतीतिसिद्धौ तत्संयोगस्य निराकाङ्क्षत्वात् तस्मान्न कथञ्चिदष्टमादिभङ्गप्रसङ्ग इति नाधिक्यम् । न चावक्तव्यत्वसप्तभङ्गयां तृतीयभङ्गस्य प्रथमभङ्गाद्वक्तव्यत्वसप्तभङ्गयां च द्वितीयभङ्गादविशेषान्न्यूनत्वमपि शङ्कनीयं तत्रांशांशग्राहकधर्मेणावक्तव्यवक्तव्यत्वयोरेव प्रथमद्वितीयभङ्गार्थत्वात्, अंशावक्तव्यस्ववक्तव्यत्वतद्विपर्ययामवक्तव्यत्वस्यैव तृतीयभङ्गार्थत्वादिति दिक् । इत्थमुक्तन्यायेन वस्तुप्रतिपादने सप्तविध एव वचनमार्ग इति स्थितम् " इति । सेयं सप्तभङ्गीनयप्रभवा,

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228