Book Title: Saptabhangimimansa
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 182
________________ (१३०) रणायाध्यवसायविशेषे समभिरूढभिन्नत्वमेवम्भूतभिन्नत्वञ्च विशेषणं देयम्, साम्प्रतस्यैव शब्द इति संज्ञान्तरमवलम्ब्य सम्प्रदाये-" विशेषिततरऋजुसूत्राभिम. तार्थग्राही अध्यवसायविशेषः शब्दः” इति लक्षणम्, अत्र-'इच्छइ विशेसियतरं, पच्चुप्पुण्णं गओ सहो' इति सूत्रं प्रमाणम् , तरप्रत्ययोपादानाद्विशेषिततमे सममिरूढे ततोऽपि विशेषिततमे एवम्भूते च ना. तिव्याप्तिः तदुक्तं-"विशेषिततरः शब्दः प्रत्युत्पन्ननयाश्रितः (नाश्रयोन यः)। तरप्पत्ययनिर्देशाद्विशेषिततमेऽगतिः ॥३३ ।। ऋजुसूत्राद्विशेषोऽस्य भावमात्रा. भिमानतः । सप्तभब्यर्पणाल्लिङ्ग-भेदादेवार्थभेदतः ॥ ३४ ॥ इति नयोपदेशे, एतद्विशेषभावना श्रीमद्भिः यशोविजयोपाध्यायैर्नयरहस्यप्रकरणे इत्थं कृता, तथा हि-"ऋजुसूत्राद्विशेषः पुनरस्येत्थं भावनीयः यदुत संस्थानादिविशेषात्मा भावघट एव परमार्थः सन् , तदितरेषां तत्तु. ल्यपरिणत्यभावेनाघटत्वात् , घटव्यवहारादन्यत्रापि घटन्वसिद्विरिति चेत्, न, शब्दाभिलापरूपव्यवहारस्य सङ्केतविशेषप्रतिसन्धाननियन्त्रितार्थमात्रवाचकतास्वभावनियम्यतया विषयतथात्वेऽतन्त्रन्वात् , प्रवृत्यादिरूपव्यवहारस्य चासिद्ध, घटशब्दार्थत्वाविशेषे भावघटे घटत्वं नापरत्रेत्यत्र किं नियामकमिति चेत् , अर्थक्रियैवेति गृहाण । अतएवात्रानुपचरितं घटपदार्थत्वम् , अन्यत्र तूपचस्तिमिति गीयते विशेषः । अथवा

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228