________________
(११)
1
"
चेत्, न, तत्परिकल्पन निमित्ताभावात् तथाहि न तावत्सावयवात्मकमन्योन्यनिमित्तकं तत्परिकल्पयितुं युक्तम्, चतुर्थादिवचनविकल्पेषु तस्यान्तर्भावप्रसक्तेः, नापि निरवयकात्मकमन्योन्यनिमित्तकं तत्परिकल्पनामईति प्रथमादिष्वन्तर्भावप्रसक्तेः न च गत्यन्तरमस्तीति नाष्टमनवमादिभङ्गकल्पना युक्ता । किं चामौ क्रमेण वा तद्धर्मद्वयं प्रतिपादयेद्योगपद्येन वा, प्रथमपक्षे गुणप्रधानभावेन तत्प्रतिपादने प्रथमद्वितीययोरन्तर्भावः, प्रधानभावेन तत्प्रतिपादने चतुर्थे, यौगपद्येन तत्पतिपादने तृतीये, भङ्गकसंयोगिमङ्गान्तरकल्पनायां प्रथमद्वितीयसंयोगे चतुर्थ एव प्रसज्यते, प्रथमतृतीयसंयोगात्पञ्चमः, द्वितीयतृतीय संयोगात्पष्ठः, प्रथमद्वितीयतृतीय संयोगात्सप्तमः, प्रथमचतुर्थादिसंयोगकल्पना तु पौनरुक्त्यभयादनुत्थानोपहतैव । न च देशिदेशभेदेन, धर्मिमैदादपौनरुक्त्यम्, प्रथम चतुर्थसमाजादेतादृशप्रतीतिसिद्धौ तत्संयोगस्य निराकाङ्क्षत्वात् तस्मान्न कथञ्चिदष्टमादिभङ्गप्रसङ्ग इति नाधिक्यम् । न चावक्तव्यत्वसप्तभङ्गयां तृतीयभङ्गस्य प्रथमभङ्गाद्वक्तव्यत्वसप्तभङ्गयां च द्वितीयभङ्गादविशेषान्न्यूनत्वमपि शङ्कनीयं तत्रांशांशग्राहकधर्मेणावक्तव्यवक्तव्यत्वयोरेव प्रथमद्वितीयभङ्गार्थत्वात्, अंशावक्तव्यस्ववक्तव्यत्वतद्विपर्ययामवक्तव्यत्वस्यैव तृतीयभङ्गार्थत्वादिति दिक् । इत्थमुक्तन्यायेन वस्तुप्रतिपादने सप्तविध एव वचनमार्ग इति स्थितम् " इति । सेयं सप्तभङ्गीनयप्रभवा,