________________
( १२ )
तत्र वचनमार्गावर्थनयशब्दनयप्रभवात्रिति व्यवस्थापित श्रीमद्भिशोविजयोपाध्यायैः तथा च तग्रन्थः
-
"अत्रैवं नयविभागमुपदिशन्ति श्रीसिद्धसेनदिवाकरपादाः एवं सतत्रियधो, वयणहो होर अत्थपज्जाए । चंजणपज्जाए पुर्ण, सवियप्पो गिव्वियप्पोय ॥ १-४१ ॥ एवं सप्तर्विकल्पो वचनपथो भवति अर्थपर्याये । व्यञ्जनपर्याये पुनः, सविकल्पो निर्विकल्पश्च ।। इति संस्कृतम् । अस्यार्थःएवमनन्तरोक्तप्रकारेण, सप्तविकल्पः सप्तभेदः, वचनपथो भवत्यर्थ पर्याये अर्थनये - सङ्ग्रहव्यवहारर्जुसूत्र लक्षणे, सप्ताप्यनन्तरोक्ता भङ्गका भवन्ति । तत्र प्रथमो भङ्गः सङ्ग्रहे. सामान्यग्राहिणि, नास्तीत्ययं तु व्यवहारे विशेषग्राहिणि, ऋजुसूत्रे तृतीयः, चतुर्थः सग्रहव्यवहारयोः, पञ्चमः सङ्ग्र हर्जुमृजयोः, षष्ठो व्यवहारर्जुसूत्रयोः सप्तमः सङ्ग्रहन्यत्रहारर्जुसूत्रेष्विति विभागः । अत्र यद्धर्मप्रकारकः सङ्ग्रहाख्यो बोधः प्रथमभङ्गफलत्वेनाभिमतस्तद्धर्माभावप्रकारको व्यवहारख्यबोध एव द्वितीयभङ्ग फलत्वेनेष्टव्यः तेन स्याद्घटः, स्यानील घट इत्यादि सामान्य विशेषसङ्ग्रह व्यवहाराभ्यां न सप्तभङ्गी प्रवृत्तिरित्यवधेयम् ।
1
अथ तृतीयभङ्गस्य ऋजुसूत्र निमित्ततायां किं वीजं, युगपत्सच्चासच्चाभ्यामादिष्टं हि सङ्ग्रहव्यवहाराव ष्यवक्तव्यमेव ब्रूतः, सङ्ग्रहव्यवहारौ युगपदुभयथाऽऽदिशत एव नेति चेत्,