________________
( २३ ) ऋजुमुत्रोऽपि कथं तथाऽऽदेष्टुं प्रगल्भताम्, मध्यमक्षणरूपायाः सतायास्तेनाभ्युपगमात् । सङ्ग्रहाभिमतयावत्सजातीयविशेषानुवृत्तसामान्यानभ्युपगमादृसूत्रेणावक्तव्यत्वभङ्ग उत्थाप्यत इति चेत्, सोऽयं प्रत्येकावक्तव्यत्व कृतोऽवक्तव्यत्यभङ्गः, तदुत्थापनेच सङ्ग्रहोप समर्थः, ऋजुसूत्राभिमतमध्यमः क्षणरूपसत्ताऽनभ्युपगन्त्रा तेनापि तदुत्थापनस्य सुकरत्वादिति चेत्, अत्रेदमाभाति - सङ्ग्रहव्यवहारौ युगपनोभयथाऽऽदेष्टुं प्रगल्भेते, स्वानभिमतांश। देशेऽनिष्टसाधनत्वप्रतिसन्धानात्, ऋजुसूत्रस्य तु वर्त्तमानपर्यायमात्रग्राहिण स्तिर्यगूर्ध्वतास्पदाः धारांशान्यतररूपसामान्यान्यापोहरूपविशेषौ च सांवृतावेवेति तदपेक्षया युगपदुभयथाऽऽहार्य तद। देश सम्भवादवक्तव्य भङ्गोत्थानमनाबाधम्, न चैवमपि तज्जनितबोधस्य प्रसङ्गरूपत्वाद्विपर्यय पर्यवसाने
सङ्ग्रव्यवहारान्यतरसाम्राज्यमिति वाच्यं, विषयाबाधे कूटलिङ्गजन्यानुमितेवि प्रकृतभङ्गजन्यबोधस्य प्रमात्वेन विपर्ययपर्यवसान कदर्थनानवकाशात्, अधिकं श्रुता विदन्ति ॥
तु बहु
व्यञ्जन पर्याय शब्दनये पुनः, सविकल्पः प्रथमे साम्प्रवाख्यशब्दनये पर्यायशब्दवाच्यता विकल्पसद्भावेऽप्यर्थस्यैकत्यात्, द्वितीयतृतीययोस्समभिरूदैवम्भूताख्य शब्दन ययोनिर्विकल्पश्च द्रव्यार्थात्सामान्यलक्षणान्निर्गतस्य पर्यायरूपस्य विकल्पस्याभिधायकत्वात्तयोः समभिरुटस्य पर्यायभेदभि
1