________________
मार्थत्वात् ; एवम्भूतस्यापि विवक्षितक्रियाकालार्थत्वात् , तथा च घटो नाम, घटवाचकयावच्छब्दवाच्यः शब्दनयेऽस्त्येव समभिरूद्वैवम्भूतयोनास्त्येवेति द्वौ भङ्गो लभ्येते लिङ्गसंज्ञा. क्रियाभेदेन भिन्नस्यैकशब्दावाच्यत्वाच्छब्दादिषु तृतीयः, प्रथमद्वितीयसंयोगे चतुर्थः, तेष्वेव च प्रथमद्वितीयचतुर्थेष्वनभिधेयसंयोगे पश्चमषष्ठसप्तमा वचनमार्गा भवन्ति । अथवाऽन्यथास्या व्याख्यातात्पर्यम्-अर्थनय एवं सप्तमङ्गाः, शब्दादिषु त्रिषु नयेषु प्रथमद्वितीयावेव भङ्गो, “यो ह्यर्थमाश्रित्य वक्तस्थः सङ्ग्रहव्यवहारजुसूत्राख्यः प्रत्ययः प्रादु. भवति सोऽर्थनयः," अर्थवशेन तदुत्पत्तेरर्थप्रधानतयाऽसौ व्यवस्थापयतीति कृत्वा, “शब्दं तु स्वप्रभवमुपसजेनतया व्यवस्थापयति, तत्प्रयोगस्य परार्थत्वात , यस्तु श्रोतरि शब्द. श्रवणादुद्गच्छति, शब्दसमभिरूद्वैवम्भूताख्यः प्रत्ययस्तस्य शब्दः प्रधानं, तद्वशेन तदुत्पत्तेः, अर्थस्तु तदुत्पत्तावनिमिसत्वात्स शब्दनय" उच्यते, तत्र वचनमार्गः सविकल्पकनिर्विकल्पकतया द्विविधः सविकल्पं सामान्यं, निर्विकल्प: पर्यायः, तदभिधानाद्वचनमपि तथा व्यपदिश्यते, तत्र शब्दसमभिरूढौ संज्ञाक्रियाभेदेऽप्यभिन्नमर्थ प्रतिपादयत इति तदभिप्रायेण सविकल्पो वचनमार्गः प्रथममङ्गरूपः, एवम्भूतस्तु क्रियाभेदाद्भिन्नमेवार्थ तत्क्षणे प्रतिपादयतीति निर्विकल्पो द्वितीयभङ्गरूपस्तद्वचनमार्गः, अवक्तव्यभङ्गस्तु व्यञ्जननये न सम्भवत्येव, यतः "श्रोत्रभिप्रायो व्यञ्जननयः,"