________________
स च शब्दश्रवगादर्थ प्रतिपद्यते, न शम्दाश्रवणात, अवक्तव्यं तु शब्दामावविषय इति, नावकायमङ्गको व्यञ्जनार्याये सम्भवतीत्यभिप्रायवता व्यञ्जनपर्याये तु सविकल्पकनिर्वि कल्पो प्रथमद्वितीयावेव भङ्गाभिहितावावार्ययेति टीकाकतो व्याचक्षते । अत्र वातरि यत्सप्तभनयशानं तन्मानसोप्रेशो. पनीतपदार्थसंसर्गभानरूपं, श्रोतरि तु शाब्दमेव तत्सम्भवति अवक्तव्यं तु न शब्दविषयः, किन्तु शहाभावविषय इति ययञ्जननयतात्पर्यमुनीतं तत्कथं सङ्गच्छते ? शब्दाभावस्याप्रमाणत्वेन कस्याप्यर्थस्य तदविषयत्वात्, कस्यचिन्मते शब्दानुपलब्धेः शब्दाभावविषयप्रमाणत्वेऽपि तां विना तद्विषयं विलक्षणं झानं माऽजनि अक्तव्यपदाद्वक्तव्यत्वाभावविषयक शाब्दबोधोत्पत्तौ कि बायकम् , न हि भावविषयक एव शाब्दबोधो भवति न स्वभावविषयक इत्यत्र प्रमाणमस्ति पदज्ञानादिकार्यतावच्छेदककोटौ भावशाब्दत्वप्रवेशे गौरवात्, घटो नास्तीत्यादेघटाभावादिशाब्दबोधस्य सार्वजनीनत्वाच, तत्रापि नत्र उपसगवद् द्योतकतया तात्पर्यग्राहकत्वमात्रमेव घटपदस्य घटप्रतियोगिके लक्षणाध्रौव्येऽभावान्तर्भावेनैव तस्या युक्तत्वादिति चेत, न. "न न घट" इत्यत्रैकस्मादघटपदाद्धट वाटाभावाभावत्वाभ्यामेकदा शक्तिलक्षगाभ्यां बोधासम्भवेन नत्र पृथक् शक्तिकल्पनाऽऽवश्यक्त्वात् , द्योतकत्वपक्षेपि घटो नास्तीत्यादिवाक्यरीत्यैव स्यादवक्तव्यो घट इत्यतोषक्तव्यबोधापतिरोधाच, तस्मानायं प्राञ्जलः पन्थाः,