________________
( ९६ ) किन्तु कथञ्चिदवक्तव्यत्वमिह "एकपदजन्यप्रातिस्विकधर्मद्वयावच्छिन्न विषयताकशाब्दबोधाविषयत्वम् ," . तद्बोधनं स्वर्थनये मानमोत्प्रेशोयस्थितखण्डशःप्रसिद्धपदार्थासंपर्गाग्रहमात्रात्कयश्चित्संसपग्रहाद्वा सम्भवति, व्यञ्जननये तु तत्र सम्भवति "असतो णत्थि णिसेहो" इत्यादिभाष्यकृदचना. दुक्तविशिष्टप्रतियोगिनोऽप्रसिद्धया तदभावस्याप्यसिद्धत्वात्यदार्थमर्यादया वाक्यार्थमर्यादया वा बोधयितुमशक्यत्वात् , न च स्यात्पदसमभिव्याहृतावक्तव्यपदात्प्रकृते खण्डशः शक्त्या बोधः सम्भवति, एकपदार्थयोः परस्परमन्वयबोधस्याव्युत्पन्नत्वात् , अन्यथा हरिपदादुपस्थितयोः सिंहकृष्णयोराधाराधेयभावसम्बन्धेनान्वयवोधप्रसङ्गादिति सूक्ष्मेक्षिकामनुसरता व्यञ्जननयेन प्रकृते नव्यत्यामादेकपदाजनित. प्रातिस्विकधर्मद्वयावच्छिन्नविषयताकशाब्दबोधविषयत्वं स्यादवक्तव्यत्वं वाच्यं, तच्च भङ्गद्वयार्थमादाय पर्यवस्थतीति व्यजननये द्वावेव भङ्गाविति व्याख्यातृतात्पर्य सुष्टु घटामटाट्यते, देशकृताश्चतुर्थाद्याश्चत्वारो भङ्गास्तु व्यञ्जननयेन शुद्धन देश्यतिरिक्तदेशाभावादेव नोद्भवनाही इति विभावनीयं सुधीभिरिति” तदिदं मीमासितं सप्तभङ्गीलक्षणमहावाक्यं स्वार्थज्ञानपूर्वकं, वाक्यम्प्रति वाक्यार्थज्ञानस्य कारणत्वात् , तच्च ज्ञानं प्रमाणरूपश्चेत्तत्प्रभवं निरुक्तवाक्यं प्रमाणं भवति, नयरूपश्चेत्तत्प्रभवनिरुक्तवाक्यमपि नयरूपमित्वेवं कारणद्वारकं प्रमाणवाक्यत्वं नयवाक्यत्वञ्चेति, एवं सकलादेश