________________
(९७)
महिम्ना निरुक्तसप्तभङ्गीवाक्यं प्रमाणात्मकं ज्ञानं जनयति, विकलादेशमहिम्ना च वस्त्वंशावगाहिज्ञानस्वरूपं नयज्ञानं जनयतीत्यतः प्रमाणात्मकज्ञानजनकत्वात्प्रमाणवाक्यं, नयात्मकज्ञानजनकत्वानयवाक्यन्तदित्येवं यथा सप्तभङ्गी प्रमाणसप्तभङ्गी नयसप्तभङ्गीति द्वैविध्यं विभर्ति, तथा सामान्यविषयकबोधजनकत्वात्सामान्य सप्तमङ्गी विशेषविषयकबोधजनकत्वाद्विशेषसप्तभङ्गीत्येवं द्वैविध्यमश्चति, न चैवं विषयाणामानन्त्याद्विषयभेदप्रयुक्तसप्तभङ्गीभेदाश्रयणे अनन्तसप्तभङ्गी. मेदप्रसङ्ग इति वाच्यम् , इष्टत्वात्, "जावइया वयणपहा, तावइया चेत्र हुंति नयवाया। जावइया नयवाया, तावइया चेव हुंति परसमया ॥” इति नयानां विषयभेदभिन्नानामान न्त्यात्तत्प्रभवाणां तज्जनकानाञ्च सप्तमङ्गीवाक्यानामपि प्रतिपाद्यभेदप्रयुक्तभेदभाजामानन्त्यस्य स्याद्वादवादिभिर्मुक्तकण्ठं भणनात् । __ ननु नयद्वयाभ्यां सप्तभङ्गीप्रवृत्तिर्भवति नत्वेकेन नयेन, तथा च सङ्ग्रहनयेन सामान्यावबोधकस्य प्रथमभङ्गस्य, व्यवहारनयेन विशेषावबोधकस्य द्वितीयमङ्गस्य, चोपस्थापने सति पवर्तमाना सप्तभङ्गी सामान्यविशेषोभयविषयिकैवेति
चेत् , अत्र ऋजवः सप्तभङ्गयाः प्रथमभङ्गो यद्विधिप्रधानक.. स्तेनैव विषयेण सप्तभङ्गथा व्यपदेशो भवतीति यत्र सामान्य
प्रथमभङ्गप्रतिपाद्यस्तत्र सप्तभङ्गी सामान्यसप्तभङ्गीति गीयते,