________________
(९८)
यत्र च विशेषः प्रथमभङ्गप्रतिपायः तत्र सप्तभङ्गी विशेषसप्तभङ्गीति व्यपदिश्यते इत्याहुः । __ वस्तुतः सङ्ग्रहनयत्वेनैकीकृतयोरपि परापरसामान्यविषयकयोः परापरसङ्ग्रहयोर्भेदोऽस्त्यवेति चैत्रः सत्त्वेनास्त्येवेति प्रथमभङ्गा, चैत्रो द्रव्यत्वेन नास्त्येवेति द्वितीयभङ्गः, इत्येवमपि सप्तभङ्गी सम्भवतीति तत्र चैत्रस्य यदस्तित्वं तत्सवलक्षणमहासामान्यस्वरूपमेव सर्वस्य वस्तुनः सदेकरूपत्वात् , सवास्तित्वयोरेकरूपत्वेऽपि सत्त्वेन चैत्रोऽस्तीति प्रतीत्यनुरोधात् सत्वस्यावच्छेदकत्वमस्तित्वस्यावच्छेद्यत्वं चैत्रस्य किं सर्वथाऽस्तित्वमुत कथाश्चिदस्तित्वमित्याकाङ्क्षानिवृत्त्यर्थमा स्थीयते, एवञ्च प्रथमभङ्गः परसङ्ग्रहेण प्रवृत्तः सचलक्षणमहासामान्यस्य परसङ्ग्रहविषयत्वात् , चैत्रो द्रव्यत्वेन नास्त्ये. वेति द्वितीयभङ्गप्रतिपाद्यं चैत्रस्य यन्नास्तित्वं तचैत्रगतं यदवान्तरसामान्यं द्रव्यत्वं तद्रूपमेव, विधिरूपस्य द्रव्यत्वस्य कथं नास्तित्वात्मकनिषेधरूपत्वमिति नाशङ्कयं, स्याद्वादिमते भावस्यैव भावाभावोभयस्वरूपत्वेन भावातिरिक्तस्याभावास्मानोऽनम्युपगमेन चैत्रे यद्व्यत्वं तदेव चैत्रगतमहासामान्यरूपास्तित्वम्भवतीत्येतावता नास्तित्वमभिधीयते, चैत्रगतद्रव्यत्वतद्गतनास्तित्वयोरक्येऽपि द्रव्यत्वेन चैत्रो नास्तीति प्रतीत्यनुरोधेन द्रव्यत्वस्यावच्छेदकत्वं नास्तित्वस्यावच्छेद्यत्वं नानुपपन्नम् , यद्यपि चैत्रस्य द्रव्यत्वं व्यवहारनयविषय इति