SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ व्यवहारनयेन द्रव्यत्वेन चैत्रस्यास्तित्वं समस्तीति द्रव्यत्वेन चैत्रोऽस्तीति प्रतीत्यनुरोधेन चैत्रगतास्तित्वावच्छेदकत्वं द्रव्यत्वस्य, तथापि सङ्ग्रहनयमूलको यस्स्यादस्त्येव चैत्र इति प्रथमभङ्गः तत्प्रतिपाद्यं चैत्रगतास्तित्वं महासामान्यसत्त्वावच्छेद्यं, न तु द्रव्यत्वावच्छेद्यं, महासामान्यसत्त्वग्राहिपरसङ्ग्रहस्य द्रव्यत्वलक्षणापरसामान्यानभ्युपगन्तृत्वेन द्रव्यत्वावच्छेद्यत्वेनास्तित्वस्याप्यनभ्युपगन्तृत्वात् , एवञ्च द्रव्यत्वावच्छेद्यं यदस्तित्वं व्यवहारनयविषयः तत्सङ्ग्रहदृष्टचाऽस्तित्वं न भवतीति तद्वस्तुगत्या पायरूपत्वान्नास्तित्वमिति व्यवहारनयमूलकस्य स्यानास्त्येव चैत्र इति द्वितीयभङ्गस्य प्रतिपाचं चैत्रगतनास्तित्वं द्रव्यत्वावच्छेद्यं भवतीति, यथा च साहनयविषयः सत्त्वेन महासामान्येन चैत्रस्यास्तित्वं तथा मैत्रादीनामप्यशेषाणां पदार्थानामिति सत्वेन सर्व वस्त्वस्त्येवेति प्रथमो भङ्गः, एवं द्रव्यत्वादिना चैत्रस्य नास्तित्वलक्षणपर्यायो यथा व्यवहारनयविषयस्तथा मैत्रादीनामप्यशेषाणां पदाथानामिति द्रव्यात्वादिना सर्व वस्तु नास्त्येवेति द्वितीयो भङ्गस्समर्थितो भवति, निरुक्तस्यास्तित्वस्यैकस्य प्राधान्यविवक्षया प्रथमो भङ्गः निरुक्तस्य नास्तित्वस्यैकस्य प्राधान्यविवक्षया द्वितीय भङ्गः निरुक्तास्तित्वनास्तित्वयोयुगपत्प्राधान्यविवक्षायां युगपत्प्रधानीभूततदुभयप्रतिपादकस्य कस्यचिच्छब्दस्याभावात्तथाऽभिधेयपरिणत्यभावात्स्यादवक्तव्यमेव सर्वमित्येवं तृतीयो भङ्गा प्रवर्तते, अयं च भङ्गः
SR No.008451
Book TitleSaptabhangimimansa
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy