________________
(१००)
सङ्ग्रहनयान भवितुमर्हति, यस्य नयस्य यो विषयस्तमेवविषयं प्राधान्येन स नयो विवक्षाविषयं कर्तुमर्हति, अस्तित्वस्य सङ्ग्रहनयविषयत्वेऽपि नास्तित्वस्य सङ्ग्रहनयाविषयत्वाद्युगपत्तदुभयप्राधान्यविवक्षा सङ्ग्रहन यान सम्भवति, एवं नास्तित्वस्य व्यवहारनयविषयत्वेऽपि निरुक्तस्यास्तित्वस्य व्यवहारनयाविषयत्वाद्युगपत्तदुभयप्राधान्यविवक्षा व्यवहारनयादपि न सम्भवतीति नायं भङ्गो व्यवहारनयादपि प्रवर्तितुमुत्सहते, ऋजुसूत्रनयस्तु न सङ्ग्रहनयाभिमतमस्तित्वमुररीकरोति न वा व्यवहारनयाभिप्रेतं नास्तित्वलक्षणपर्यायमभिप्रेतीति सर्वथा स्वाविषयीभूतयोस्तयोयुगपत्ताधान्यविवक्षा कथं नाम स कर्तुमुन्सहते तथा च ऋजुसूत्रनयादप्ययं भङ्गो न भवेदेव यद्यपि, तथापि वर्तमानक्षणमात्रवृत्तित्वलक्षणसत्त्वमुररीकुर्वता शुद्धर्जुमूत्र गासख्यातिमभ्युपयताऽसत्ख्यातिबलादसतोः पराभिमतास्तित्वनास्तित्वयो. युगपत्प्रधानीभूतयोविवक्षा कर्तुं शक्येति तथा विवक्षातो भवन्नयं भङ्ग पजुसूत्रनयप्रवर्तितः, निरुक्तसञ्चासत्त्वोभयक्रमिकप्राधान्यविवक्षा सत्त्वासत्त्वाभ्युपगन्तृभ्यां सङ्ग्रहव्यवहारनयाभ्यां कर्तुं शक्येति सर्व स्वादस्त्येव स्वान्नास्त्येवेति तुरीयो मङ्गः सङ्ग्रहव्यवहारनयोभयप्रवर्तितः, सङ्ग्रहेण सत्त्वस्य विवक्षा, ऋजुसूत्रेण युगपत्प्रधानीभूतास्तित्वनास्तित्वोभयविवक्षा-ताभ्यां लब्धात्मलाभः स्यादस्त्येव स्यादवक्तव्यमेर सर्वमिति पञ्चमो भङ्गस्सङ्ग्रह सूत्रोभयनयसमुत्थः, व्यवहारे