________________
(१०१)
णासत्त्वस्य विवक्षा ऋजुसूत्रेण युगपत्प्रधानीभूतसत्वासचोभयविवक्षा-ताभ्यां जायमानः स्यानास्त्येव स्यादवक्तव्यमेव सर्वमिति षष्ठो भङ्गो व्यवहारर्जुमूत्रनयोभयमूलका, सङ्ग्रहव्यवहारमूलकक्रमिकसच्चासचोभयप्राधान्यविवक्षाशुद्धर्जुमूत्रनयविन. म्मितयुगपत्प्राधानीभूतसचासचोभयविवक्षाभिरुपजायमानः स्यादस्त्येव स्यानास्त्येव स्यादवक्तव्यमेव सर्वमिति सप्तमभङ्गः सङग्रहव्यवहारर्जुसूत्रनयैःप्रवर्तित इत्येवं सामान्यसप्तभङ्गयां नयत्रययोजनावद्विशेषसप्तभङ्गयामपिनयत्रययोजनाऽऽवश्यकी,यदा चापरसङ्ग्रहविषयावान्तरद्रव्यत्वादि सामान्यरूपेण चैत्रादेरस्तित्वं विवक्ष्यते, द्रव्यत्वावान्तरचेतनत्वादिना चैत्रादेर्योsस्तित्वपर्यायो व्यवहारनयाभिप्रेतस्स द्रव्यत्वाद्यवान्तरसामान्याभ्युपगन्त्रपरसङ्ग्रहदृष्ट्या नास्तित्वमेवेति तल्लक्षणं नास्तित्वं चेतनत्वादिना विवक्षितं व्यवहारनयेन तदा तादृशास्तित्व प्रतिपादको द्रव्यत्वेनास्त्येव चैत्र इति प्रथमभङ्गोऽपरसङ्ग्रहनयसमुत्थः, तादृशनास्तित्वलक्षणपर्यायप्रतिपादकश्च चेत. नत्वेन नास्त्येव चैत्र इति द्वितीयोभङ्गो व्यवहारनयसमुत्थः, पूर्वोक्तदिशात्रापि स्यादवक्तव्य एव चैत्र इति तृतीयो भङ्गश्शुद्धर्जुमूत्रनयप्रभवः, पूर्वोपदर्शितदिशात्रापि तुरीयभङ्गस्यापरसहव्यवहारनयद्वयसमुत्थत्वं, पश्चमभङ्गस्य सङ्ग्रहर्जुसूत्रनयद्वयसमुत्थत्वं, षष्ठभङ्गस्य व्यवहारजुपूत्रनयद्वय - समुत्थत्वं सप्तमभङ्गस्यापरसङ्गहव्यवहारर्जुमूत्रनयत्रयसमु. स्थत्वमवसेयम् , चेतनत्वेन सर्वजीवानां सङ्ग्रहणादेकीकरणा