________________
( १०२ ) तनत्वमपरसङ्ग्रहविषय इत्यादेरचेतनत्वे नास्त्येव चैत्र इति प्रथमभङ्गोऽपरसङ्ग्रहप्रभवः, स च सङ्ग्रहो जीवस्य सिद्धसंसारिभेदेन द्वैविध्यं नाभ्युपैतीति न सिद्धसंसारित्वादिनाऽस्तित्वं तन्मते किन्तु व्यवहारनय एव व्यवहारनयाभिमतं तथाऽस्तित्वं निरुक्तापरसङ्ग्रहदृष्ट्या नास्तित्वमेवेति कृत्वा संसारित्वेन नास्त्येव चैत्र इति द्वितीयो भङ्गो व्यवहारनयसमुत्थः, तृतीयभङ्गः पूर्ववदृजुसूत्रनयसमुत्थः, तुरीयादिभङ्गानां पूर्वदिशा नयद्वयादिसमुत्थत्वं निभालनीयम्, यदि
महासामान्यस्य सवस्य साक्षाद्व्याप्यमेव द्रव्यत्वादिकमपरसङ्ग्रहविषयः तद्व्याप्य चेतनत्वादिश्च व्यवहारनयस्यैव विषयः, अन्यथा यद्यत्किञ्चिदपेक्षया सामान्यं तस्य सर्वस्यापरसङ्ग्रहविषयत्वे, यन्न किञ्चिदपेक्षया सामान्यं तदन्त्यविशेषात्मकं क्षणिकस्वरूपपर्यायस्वरूपं पर्यायार्थिकर्जुसूत्रादिनयविषय एवेति नयान्तराविषयस्य व्यवहारनय विषयस्याभावाद्व्यचहारनयस्यवाभावः प्रसज्येतेतिविभाव्यते, तदास्तु व्यवहारनयस्यैत्र विषयश्चेतनत्वादिकम्, अवान्तरसामान्यविशेषाणां व्याध्यव्यापकभावमापन्नानामनेकविधत्वेन तद्राहिणां व्यवहारनयप्रभेदानामप्यस्त्यवान्तरवैलक्षण्यं व्यवहारनयत्वेन साजात्येsपि, परसङ्ग्रहेण स्त्रविषय महा सामान्यसच्चे नै की कृतानामपि द्रव्यगुणादीनामवान्तरद्रव्यत्वादिसामान्यलक्षण विशेषेणावहीयमाणत्वाद्विभज्यमानत्वाद्विभाग परिष्ठव्यवहारनयविषयत्वमिति कृत्वा द्रव्यत्वादीनामपि व्यवहारनयविषयत्वं चेतना