SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ (१८३) चेतनलक्षणाशेषद्रव्याणां द्रव्यत्वेन रूपादि-ज्ञानादिलक्षणाशेषगुणानां गुणत्वेन च सङ्ग्रणात्सङ्ग्रहविषयत्वमिति कृत्वा द्रव्यत्वादीनामपरसङ्ग्रहविषयत्वमपीति व्यवहारनयविषयद्रव्यत्वादिविषयीकरणादपरसङ्ग्रहस्थाशुद्धत्वं सङ्ग्रहनयविषयद्रव्यत्वादिविषयीकरणाद् द्रव्यत्वादौ प्रवर्तमानस्य व्यवहारस्याप्यशुद्धत्वं व्यवहाराविषये महासामान्यसवमात्र प्रवर्त मानस्य परसग्रहस्यैव शुद्धत्वं क्षणमात्रस्थायित्वेनान्त्यविशेषमनभ्युपगम्य कतिपयकालस्थायित्वेनान्त्यविशेषमेवोररीक्रियमाणस्य व्यवहारस्य व्यवहारान्तरापेक्षया शुद्धत्वमीदृशीं नयमर्यादा समाश्रित्यापरसङ्ग्रह विषयेण द्रव्यत्वादिना चैत्रस्यास्तित्वे व्यवहारनयविषयेण चेतनत्वादिना चैत्रस्य नास्तित्वं, व्यवहारविशेषविषयेण चेतनत्वेन चैत्रस्यास्तित्वे तद्वयवहारविलक्षणव्यवहारविशेषविषयेण संसारित्वेन चैत्रस्य नास्तित्वं, तथा व्यवहारविशेषविषयेण संसारित्वेन चैत्रस्यास्तित्वे तद्वयवहारविलक्षणव्यवहारविशेषविषयेण मनुष्यवादिना चैत्रस्य नास्तित्वं व्यवहारविशेषविषयेण मनुष्यत्वादिना चैत्रस्यास्तित्वे तद्वयवहारविलक्षणव्यवहारविषयेण ब्राह्मणत्वादिना नास्तित्वमित्येवं सामान्यविशेषभावापना विषयवैलक्षण्यसमाश्रयणप्रभवविवक्षावैचित्र्यनिमित्तकैकव्यवहारकजातीयावान्तरविलक्षणनयभेदयोजनयाऽपि सामान्यसप्तभङ्गी-विशेषसप्तभङ्गीप्रवृत्तिसंभवतीति, श्रीमद्भिर्यशोवि. जयोपाध्यायैरभिनवस्वमनीषया सर्वास्वर्थनयसमुत्थासु सप्त
SR No.008451
Book TitleSaptabhangimimansa
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy