________________
( ९० )
त्मकः प्रतिपाद्यमपि तथाभूतं दर्शयतीति सम्प्रदाय विदो वदन्ति । तत्र जिज्ञासित सप्तधर्मात्मकताप्रतिपादकत्वपर्याष्त्यधिकरणमहावाक्यत्वरूप सप्तभङ्गीत्वं समुदाय एव, निरुक्तप्रतिपादकत्वाधिकरणवाक्यत्वरूपं च तत्प्रत्येकमपीति विवेकः, अत एव स्यात्पदलाञ्छन विवक्षितधर्माधारकत्वेन स्वार्थमात्रप्रतिपादनप्रवणत्वेन च द्विधा सुनयत्वमुदाहरन्ति - आद्यं सप्तभङ्गयात्मक महावाक्यैकवाक्यतापन्नवाक्ये, अन्त्यं चोदासीने धर्मान्तरोपादानप्रतिषेधाकारिणि, इत्थं च स्यादस्तीत्यादि प्रमाणं, अस्त्येवेत्यादि दुर्नयः, अस्तीत्यादिकः सुनयः, नं तु स व्यवहाराङ्गम्, स्यादस्त्येवेत्यादिस्तु सुनय एव. व्यवहारकारणम्, स्वपरानुवृत्तव्यावृत्तत्रस्तु विषय प्रवर्तकवाक्यस्य व्यवहारकारणत्वादिति ग्रन्थकृतो विवेचयन्ति, अत्र सप्तमङ्गयामाद्यभङ्गकविधा, द्वितीयोऽपि त्रिधा, तृतीयो दशधा, चतुर्थोऽपि दशचैव पञ्चमादयस्तु त्रिंशदधिकशतपरिमाणाः प्रत्येक श्रीमन्मल्लवादिप्रभृतिभिर्दर्शिताः । पुनश्च पत्रिंशदधिकचतुर्दशशत परिमाणास्त एव च द्वयादिसंयोगकल्पनया कोटिशो भवन्तीत्यभिहितं तैरेवेति तद्विस्तरस्तड्रन्थादवसेय इति ॥ सप्तैव भङ्गास्संभवन्ति नाष्टभङ्गादय इत्यपि श्रीमद्भियविशारदैन्यया चार्यैर्यशोविजयोपाध्यायरित्थं समर्थितम्, तथाहि
'अथानन्तधर्मात्मके वस्तुनि तत्प्रतिपादकवचनस्य सप्तधा कल्पनेऽष्टम नवमादिविकल्पानां कल्पनमपि किं न क्रियत इति