________________
(८९) विक्षणे षष्ठः. तदुक्तं सम्मतौ "आइट्ठोऽसम्भावे देसो देसो य उभयहा जस्स ॥ तं नत्थि अवतव्यं च होइ दवियं वियप्पवसा ।।११।-॥३९॥ आदिष्टोऽसद्भावे देशो देशश्वोभयथा यस्य । तन्नास्ति अवक्तव्यं च भवति द्रव्यं विकल्पवशात् ।। इति संस्कृतम् । अस्यार्थः-यस्य वस्तुनो देशोऽसच्चे आदिटोऽसन्नेवायमित्यवक्तव्यानुविद्धो विवक्षितोऽपरश्वासदनुविद्धः, उभयथा सदसचाभ्यामादिष्टस्तदा तद्रव्यं नास्ति चावक्तव्यं च भवति विकल्पवशात् , तन्यपदेश्यावयवाभेदोपचारा.
व्यस्यापि तव्यपदेशासादनात , देशानुपरक्तद्वितीयतृतीयभगव्युदासेनायं षष्ठो भङ्गः प्रवर्तते ॥६॥ देशेऽस्तित्वस्य देशे नास्तित्वस्य देशे च युगपदुभयोर्विवक्षायां सप्तमः तदुक्तं सम्मतौ "सब्भावासम्भावे देसो देसो य उभयहा जस्स । तं अस्थि णस्थि अवतव्वयं च दवियं विअप्पवसा।।१-४०॥" "सद्भावासद्भावे देशो देशश्च उभयथा। यस्य तदस्ति नास्ति अवक्तव्यं च द्रव्यं विकल्पवशात् ॥” इति संस्कृतम् । अस्यार्थ:-यस्य देशिनो देशोऽवयवो देशो धर्मो वा, सद्भावे सत्वे नियतोऽपरस्त्वसद्भावेऽसत्वे, तृतीयस्तूभरथेत्येवं देशानां सदसदवक्तव्यव्यपदेशात्तदपि द्रव्यमस्ति च नास्ति चावक्तव्यं च भवति विकल्पवशात, तथाभत्तविशे षणाध्यासितस्य द्रव्यम्यानेन प्रतिपादनादपरभङ्गव्युदासः । एते च परस्पररूपापेक्षया सप्तभङ्गयात्मकाः प्रत्येकं स्वार्थ प्रतिपादयन्ति नान्यथेति प्रत्येकं तत्समुदायो वा सप्तभङ्गया.