SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ( ८८ ) दण्डवानितिवत् स्यादस्त्यवक्तव्यश्च घट इत्यतोऽस्तित्वविशिष्टावक्तव्यत्ववान् घट इत्यबोधात् , किन्तु चकारवलाद् 'एकत्र द्वयमिति' न्यायेन विभिनदेशे दण्डी कुण्डली च चैत्र इत्यत्र चैत्रे दण्ड कुण्डलयोरिव प्रकृते घटेऽस्तित्वावक्तव्यत्वयोः परस्पराविशेषणीभूतयोरेव भानाव, एकत्र द्वयभाने द्वयोः सामानाधिकरण्येन वैशिष्टयमप्योत्सर्गिक भासत इति चेत्, तर्हि सम्भूयभङ्गद्वयजनितबोधेऽपि तद्भानमावश्यकमिति कस्ततो विशेषः, वस्तुतो मिलिताभ्यां प्रथमतृतीयाभ्यामस्तित्वविशिष्ट घटे वक्तव्यवैशिष्टयज्ञानं सुकर, द्वितीयमीलनस्यापि ''अधिकं प्रविष्टं न तु तद्धानिः" इति न्यायेनादुष्टत्वात् , प्रकृते तु 'एकत्र द्वयमिति' न्यायेनापि न बोधो, देशे सत्त्वस्य देशेऽवक्तव्यत्वस्य च विवक्षणादिति विपरीतो विशेषः, परस्परविशेषणीभूतयोरेकवाक्येन बोध्यत्वप्रकारकतात्पर्य विषयतया तु विशेषो न भङ्गान्तरनिमित्तफलाविशेषात् , अन्यथा विशेषणविशेष्यभावकामचारस्यापि तथावप्रस. ङ्गात् , तथापि देशविशेषितपरस्परविशेषणविशेष्यभावेनात्र विशेषो द्रष्टव्यः । प्रकृतेऽस्त्यवक्तव्यपदयोर्देशास्तित्वविशिष्टदेशावक्तव्यत्वविशिष्टयोरेव तात्पयानुपपत्या लक्षणास्वीकारात, तयोश्च तादात्म्येन वैशिष्टयबोधस्यैतद्भगफलत्वात , अयमेव परस्परानुवेधार्थोऽपि द्रष्टव्यः, चतुर्थभङ्गेऽप्युभयप्रधानावयवभागेनैव विशेषोपदेशादत्राग्रेऽपि तस्यैव विशेषस्थाविशिष्टत्वादितिदिक् ॥५॥ देशेऽसचस्य देशे च युगपदुभयो
SR No.008451
Book TitleSaptabhangimimansa
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy