________________
(८७)
लैकस्वरूपवाक्यत्वेन प्रामाण्यरक्षार्थमिति दिक् ४ । एकस्य देशस्य सत्वेनापरस्य च युगपदुभयथा देशे द्वितीयो विकलादेशः, तदुक्तं संम्मतो “सम्भावे आइट्ठो, देसो देसो म उभयहा जस्स । तं अस्थि अवत्तव्यं, च होइ दवियं विअप्पवसा ॥ १-३८ ॥” सद्धावे आदिष्टो, देशो देशश्चोभयथा यस्य । तदस्ति अवक्तव्यं च भवति द्रव्यं विकल्पवशात्इति संस्कृतम् । अस्यार्थः-सद्भावेऽस्तित्वे, यस्य घटादेधर्मिणः, देशो धर्मः, आदिष्टोऽवक्तव्यानुविद्धस्वभावे, अन्यथा तदसवप्रसङ्गात् , न ह्यपरधर्माप्रविभक्ततामन्तरेण विव. क्षितधर्मास्तित्वमस्य सम्भवति, खरविषाणादेरिव, तस्यैवापरो देश उभयथाऽस्तित्वनास्तित्वप्रकाराम्यामेकदैव विवक्षितोडस्तित्वानुविद्ध एवावक्तव्यस्वभावे, अन्यथा तदसत्त्वप्रसक्तेः, न यस्तित्वाभावे उभयाविभक्तता शशशृङ्गादेरिव तस्य सम्मविनी, प्रथमतृतीयकेवलभङ्गव्युदासस्तथा विश्वावशादत्र कुतो द्रष्टव्यः, तत्र प्रथमतृतीययोभेङ्गयोः परस्पगविशेषणीभृतयोः प्रतिपाद्येनाधिगन्तुमिष्टत्वात् , प्रतिपादकेनापि तथैव विवक्षितत्वात् , अत्र तु तद्विपर्ययात् , अनन्तधर्मात्मकस्य धर्मिणः प्रतिपाद्यानुरोधेन तथाभूतधर्माकान्तत्वेन वक्तुनिष्टत्वात् , तद्व्यमस्ति चावक्तव्यं च भवति, तद्धर्मविकल्पवशाद् धर्मयोस्तथा परिणतयोस्तथा व्यपदेशे धर्म्यपि तद्द्वारेण तथैव हि व्यपदिश्यते । अत्रेदमवधेयम्-परस्परविशे. पणीभूतयोरस्तित्वावक्तव्यत्वयोल न विवक्षा, तत्र चैत्रो रक्त