Book Title: Saptabhangimimansa
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
( १२५) त्वेवं प्रतिबोधनीयाः, योऽयं स्वर्गाधिपे सहस्राक्षे इन्द्रपदसङ्केतस्तदन्य एव नामेन्द्र गोपालदारके इन्द्रपदसङ्केत इति, यदिन्द्रपदसङ्केतविशेषविषयत्वं नामेन्द्रत्वं गोपालदारके तदि. न्द्रपदसङ्केतविशेषविषयत्वं नास्त्येवेन्द्रप्रतिकृताविति नाम्नि स्थापनानिक्षेपान्तर्भावासम्भवात् , यदि चेन्द्रपदस्य मुख्यसङ्केतो भावेन्द्र एव, गोपालदारकादौ तूपचारलक्षण एव, सङ्केत इत्युपचारात्मकेन्द्रपदसङ्केतविषयत्वं यथा गोपालदारकादौ तथाऽऽकृतावपीति तद्रूपेण नाम्नि स्थापनाया अन्तर्भाव इति विभाव्यते, तथा द्रव्ये पीन्द्रे पर्यायकारणे इन्द्रपदस्योपचारलक्षणस्सङ्केतो भवत्येवेत्युपचारात्मकेन्द्रपदसङ्केतविषयत्वेन नाम्नि द्रव्यनिक्षेपोऽप्यन्तभवदिति द्रव्यनिक्षपानभ्युपगन्तृत्वमपि सङ्ग्रहस्य प्रसज्येत, तस्माद्यादृच्छिकसङ्केतविशेषग्रहणमप्रामाणिकमेव, किन्तु पित्रादिकृतसङ्केतविशेषग्रहणमेव तत्र कर्त्तव्यं, स च सङ्केतविशेषो गोपालदार. कादावेवेन्द्रपदस्य, नेन्द्राकृताविति, न नाम्नि स्थापनायाअन्तर्भावः येषु स्वस्वपित्रादिभिरिन्द्रपदसङ्केतः क्रियते ते च बहव इति तेषां यनामेन्द्रत्वेन सङ्ग्रहव्यापार इति मन्तव्यं, यदृच्छया सहस्वीकारे तु नाम्नोऽपि भावकारणतया द्रव्येsन्तर्भाव आपद्येत, द्रव्यस्य भावकारणत्वं तावत्सुप्रतीतमेव, नामापि चात्यन्तभक्तिनिर्भरमानसेनाभ्यस्यमानं कालान्तरे भावस्वरूपावातिनिबन्धन भवत्येव कस्यापि भावकारणत्वन नामद्रव्ययोरक्याध्यवसायलक्षणसङ्ग्रहव्यापारोऽपि वक्तुं

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228