Book Title: Saptabhangimimansa
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 170
________________ ( ११८ ) -न्यून वृत्तित्वस्य जातिविशेषणतयाऽनुपादाने सकलन यवृत्तिनयत्वजातिमादाय व्यवहारनयादावतिव्याप्तिरिति तद्वारणाय नयत्वन्यून वृत्तित्वस्य जातिविशेषणतयोपादानम्, यत्किञ्चिनैगमव्यवहारान्यतरत्वादिकमादाय व्यवहारेऽतिव्याप्तिवारगाय जात्युपादानं, नैगमत्वजातिमादाय सर्वत्र नैगमे लक्षणसमन्वयः । अत्र गौणतया विशेषाभ्युपगन्तृत्वे सति मुख्यतया यः सामान्याभ्युपगमः यश्च गौणतया सामान्याभ्युपगन्तृत्वे सति मुख्यतया विशेषाभ्युपगमस्तदुभयवृत्तित्वमेव सामान्यविशेषोभयाभ्युपगन्त्रव्यवसाय वृत्तित्वमित्यनेन विवक्षितं, तेन यः कणादाभिमतो गौणतया विशेषानभ्युपगन्तुत्वस्वतन्त्रसामान्य प्राधान्याभ्युगमो यश्च गौणतया सामान्या - नभ्युपगन्तृत्व स्वतन्त्रविशेषप्राधान्याभ्युपगमस्तदुभयमादाय दुर्नयनैगमवृत्तिजातिविशेषमादाय न दुर्नयात्मके नैगमेऽतिव्याप्तिः । सङ्ग्रहत्वस्य गौणतया विशेषाम्युपगन्तृत्वे सति मुख्यतया सामान्याभ्युपगन्तरि सङ्ग्रहे वृत्तित्वेऽपि गौणतया सामान्याभ्युपगन्तृत्वे सति मुख्यतया विशेषाभ्युपगन्तरि नये न वृत्तित्वं, व्यवहारत्वस्य गौणतया सामान्याभ्युपगन्तृत्वे सति मुख्यतथा विशेषाभ्युपगन्तरि नये वृत्तित्वेऽपि गौणतया विशेषास्युपगन्तृत्वे सति प्राधान्येन सामान्याभ्युपगन्तरि नये न वृत्तित्वमिति न सङ्ग्रहत्व - व्यवहारत्वजातिमादाय सङ्ग्रहव्यवहारयोरतिव्याप्तिः । यद्यपि कस्यचिन्नैगमस्य गौणतया विशेषाभ्युपगन्तृत्वे सति प्रधानतया सामान्याभ्युपगन्तृत्वमेक

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228