________________
( ११८ )
-न्यून वृत्तित्वस्य जातिविशेषणतयाऽनुपादाने सकलन यवृत्तिनयत्वजातिमादाय व्यवहारनयादावतिव्याप्तिरिति तद्वारणाय नयत्वन्यून वृत्तित्वस्य जातिविशेषणतयोपादानम्, यत्किञ्चिनैगमव्यवहारान्यतरत्वादिकमादाय व्यवहारेऽतिव्याप्तिवारगाय जात्युपादानं, नैगमत्वजातिमादाय सर्वत्र नैगमे लक्षणसमन्वयः । अत्र गौणतया विशेषाभ्युपगन्तृत्वे सति मुख्यतया यः सामान्याभ्युपगमः यश्च गौणतया सामान्याभ्युपगन्तृत्वे सति मुख्यतया विशेषाभ्युपगमस्तदुभयवृत्तित्वमेव सामान्यविशेषोभयाभ्युपगन्त्रव्यवसाय वृत्तित्वमित्यनेन विवक्षितं, तेन यः कणादाभिमतो गौणतया विशेषानभ्युपगन्तुत्वस्वतन्त्रसामान्य प्राधान्याभ्युगमो यश्च गौणतया सामान्या - नभ्युपगन्तृत्व स्वतन्त्रविशेषप्राधान्याभ्युपगमस्तदुभयमादाय दुर्नयनैगमवृत्तिजातिविशेषमादाय न दुर्नयात्मके नैगमेऽतिव्याप्तिः । सङ्ग्रहत्वस्य गौणतया विशेषाम्युपगन्तृत्वे सति मुख्यतया सामान्याभ्युपगन्तरि सङ्ग्रहे वृत्तित्वेऽपि गौणतया सामान्याभ्युपगन्तृत्वे सति मुख्यतया विशेषाभ्युपगन्तरि नये न वृत्तित्वं, व्यवहारत्वस्य गौणतया सामान्याभ्युपगन्तृत्वे सति मुख्यतथा विशेषाभ्युपगन्तरि नये वृत्तित्वेऽपि गौणतया विशेषास्युपगन्तृत्वे सति प्राधान्येन सामान्याभ्युपगन्तरि नये न वृत्तित्वमिति न सङ्ग्रहत्व - व्यवहारत्वजातिमादाय सङ्ग्रहव्यवहारयोरतिव्याप्तिः । यद्यपि कस्यचिन्नैगमस्य गौणतया विशेषाभ्युपगन्तृत्वे सति प्रधानतया सामान्याभ्युपगन्तृत्वमेक