________________
( ११९)
कस्यचित्पुनः गौणतया सामान्याभ्युपगन्तृत्वे सति प्रधानतया विशेषाभ्युपगन्तृत्वमेव, तथापि यो नैगमविशेषः गौणतया यत्किञ्चिद्विशेषं प्रधानतया यत्किश्चित्सामान्यश्च स्वीकरोति तथा गौणतया यत्किश्चित्सामान्यं प्रधानतया यत्किञ्चिद्विशेषश्चाभ्युपैति तं नैगमविशेषमुपादाय नैगमत्वजातरुक्तजातिस्वरूपतया ग्रहणसम्भवेन तादृशजातिमत्वस्य सर्वत्र नैगमे सचान कुत्राप्यव्याप्तिः प्रमाणस्य प्रधानतयैव सामान्यविशेषोभयाभ्युपगन्तृत्वं न त्वैकस्य गौणतयाऽपरस्य मुख्यतयाऽभ्युपगन्तृत्वं ततो न प्रमाणत्वं निरुक्तसामान्यविशेषोभयाभ्युपगन्तवृत्ति न वा नयत्वन्यूनवृत्तितज्जातिरपीति न प्रमाणेऽतिव्याप्तिरिति बोध्यम् ।
अयश्च नैगमो नाम-स्थापना-द्रव्य-भावाख्यान चतुरोऽपि निक्षेपानभ्युपैति, तत्र यस्य कस्यचिद्वस्तुनो घट इति नाम क्रियते स नामघट:. स्वाधिपत्यादिलक्षणेन्द्रपदप्रवृत्तिनिमित्तरहितोऽपि गोपालदारकादिरिन्द्रोऽयमित्येवं सङ्केतितो नामेन्द्रः, घट इति नामापि नामघटः, एवं इन्द्र इति नामापि नामेन्द्र इति नामनिक्षेपः । यत्किमपि वस्तु घटाकारं घटाकाररहितं वाऽयं घटाकार इत्येवं स्थाप्यते स स्थापनाघटः, एवं काष्ठमस्तरादिनिर्मिता इन्द्रोपेन्द्रादिप्रतिमा इन्द्रोऽयमुपेन्द्रोऽयमित्येवं स्थापिता स्थापनेन्द्रः स्थापनोपेन्द्र: इति स्थापनानिक्षेपः। यश्च मुद्द्व्यं घटरूपेण परिणमिष्यति