________________
( १२० )
अनुभूतघट परिणामं वा तन्मृद्द्रव्यं घटकारणत्वाद् घटोऽय. मित्येव निक्षिप्यमाणं द्रव्यघटः । एवं यो जीवः पूर्वजन्मनि इन्द्रोऽभूत् परत्र वेन्द्रो भविष्यति स इन्द्रोऽयमित्येवं निक्षिप्यमाणो द्रव्येन्द्र इति द्रव्यनिक्षेपः । यस्य वस्तुनो यदसाधारणस्वरूपं तत्तस्य भाव इति पृथुवुभोदराद्याकारः कम्बुग्रीवादिमान् पदार्थ : घटोऽयमित्येवं सङ्केतितो भावघटः, एवं स्वर्गाधिपत्यमनुभवन् सहस्राक्षः इन्द्रोऽयमित्येवं सङ्केतितो भावेन्द्र इति भावनिक्षेपः । नामनिक्षेपाभ्युपगन्ता नयोऽपि नामनिक्षेप इति नामनिक्षेपाभ्युपगन्तुनैगमनयविशेषमतेशब्दार्थयोस्तादात्म्यमेव सम्बन्ध इत्यर्थस्य नामरूपतेति, अर्थाभिधानप्रत्ययास्तुल्यनामधेया इति वचनप्रामा यादेकशब्दवाच्यत्वेन शब्दार्थयोस्तादात्म्यमिति घट इति नामाऽपि घट एव, तुल्यपरिमाणत्वेन घटरूपार्थेन समं घटपरिमाणसमपरिमाणकस्य वस्तुनोऽभेदेन घटाकारोऽपि घट एव, मुख्यार्थमात्राभावादेव तत्र तत्प्रतिकृतित्वम्, परिणामपरिणामिभाव सम्बन्धस्यात्यन्तभेदेऽनुपपच्या मृत्पिण्डादिद्रव्यघटोपि घट एव, पृथुवुभोदराद्याकारस्य कम्बुग्रीवादिमतो भावघटस्य घटत्वं तु सर्वानुमतमेवेत्येवं चत्वारोऽपि निक्षेपा मैगमनयस्य सम्मता: - जत्थय जं जाणिज्जा निक्खेयं निक्खिवे निरवसेसं जत्थवि य ण जाणिज्जा, चउक्कयं णिक्खिवे तत्थ" ति वचनप्रामाण्याभिरुक्त निक्षेपचतुष्टयस्य सर्ववस्तुव्यापित्वमत्रसेयम्, यत्र यत्र व्यभिचार
·