________________
(१२१) स्तदन्यत्वे सति वस्तुत्वस्य व्यापकं निक्षेपचतुष्टयं, तेनानमिलाप्यभावेषु,नामनिक्षेपाप्रवृत्तावपिन क्षतिरिति केचिदाहु, अन्ये तु निर्विशेषितवस्तुत्वस्य व्यापकं निक्षेपचतुष्टयम् , अनभिलाप्यभावेष्वपि केवलिप्रज्ञारूपमेव नामास्तीति, अत्र केली सर्व जानातीत्यनमिलाप्यमपि केवलिप्रज्ञागोचर इति केलिप्रज्ञारूपं नामाऽपि स्ववाच्यविषयतया तत्र वर्तत इति कृत्वा नामनिक्षेपस्तत्र सम्भवतीति नामनिक्षेपस्य सर्ववस्तु. व्याप्तिः, जीवे द्रव्यनिक्षेपाव्याप्तिरित्यपि नास्ति यतो य इदानीं मनुष्यस्सन् देवो भविष्यति स एव भाविदेवजीवपर्यायकारणत्वाद् द्रव्यजीव इति आदिष्टद्रव्यत्वकवटादिपर्यायकारणत्वान्मृदादिरेव द्रव्यद्रव्यमिति द्रव्येऽपि द्रव्यनिक्षेपस्सम्भवतीत्याहुः, तदपरे न क्षमन्ते, यतः नैगमनयमते पौलिकस्य शब्दस्यैव नामतया स्वीकारेण केवलिप्रज्ञाया आत्मनश्चैतन्यलक्षणगुणरूपत्वेन तामुपादायानमिलाप्यभावेषु नामनिक्षेपव्याप्तिन सम्भवति, केवलिप्रनेत्येवं रूपो यश्शब्दस्तस्य स्ववाच्यविषयत्वसम्बन्धोऽपि न संज्ञासंझिसम्बन्धो नामतद्वतोर्वाच्यवाचकमावलक्षणसाक्षात्सम्ब. न्धस्यैव निक्षेपनियामकत्वात् , देवजीकारणत्वान्मनुष्य जीवस्य द्रव्यजीवत्वाभ्युपगमे सिद्ध एव भावजीवो भवेत, एवमादिष्टद्रव्यहेतुद्रव्यस्य द्रव्यद्रव्यत्वोपगमे भावद्रव्यं न किश्चिद्भवेदिति, गुगपर्यायवियुक्तः प्रज्ञास्थापितो द्रव्यजीव इति मतमपि न समीचीनं, सतां गुणपर्यायाणां बुद्धया