________________
( १२२) पनयनस्य कर्तुमशक्यात्वात् , अर्थपरिणतेर्ज्ञानानधीनत्वात् एके सूरयो जीवशब्दार्थज्ञस्तत्रानुपयुक्तो जीवशब्दार्थज्ञस्य शरीरं वा जीवरहितं द्रव्यजीव इति नाव्यापिता नामादीना. मिति मेनिरे तैरपि नानोऽव्यापित्वं न परिहतम् । प्रधानतया द्रव्यामात्राभ्युपगमप्रवणत्वेन द्रव्यार्थिकस्य नैगमस्य कथं नामादिनिक्षेपचतुष्टयाभ्युपगमन्तत्वं, गौणतया पर्यायाभ्युपगन्तृत्वेन भावनिक्षेपसहत्वाम्पगमे पर्यायार्थिकानां शब्दनयानामपि गौणतया द्रव्याभ्युपगन्तृत्वान्नामादिचतु. ष्टयाभ्युपगन्तृत्व स्यात् , तथाच "भावं चिय सद्दणया सेसा इच्छंति सव्वणिक्खेवे"त्ति भाज्यव्यवस्था दुर्घटा स्यादिति नाशङ्कनीयं, अविशुद्धनैगम मेदानां नामाद्यभ्युपगमप्रवणत्वेऽपि विशुद्रुनैगमभेदस्य द्रव्यविशेषणतया पर्यायाभ्युपगमात्तत्र भावनिक्षेपोपपत्तेः अत एवाह-भगवान् श्रीभद्रबाहु:-"जीवो गुणपडिवन्नो णयस्स दवहियस्स सामाइयं"ति, इतराविशेषणत्वरूपप्राधान्येन पर्यायानभ्युपगन्तवादेव न तस्य पर्यायार्थिकत्वं प्रसज्यते, शब्दादीनां पर्यायाः थिकनयानां पुनर्नैगमवदविशुद्धथभावान नामाद्यभ्युपगन्तृत्वमिति, एवमन्याऽत्र पूर्वपक्षोत्तरपक्षप्रवणाप्रक्रिया ग्रन्थान्तरतोऽ. बसेया । सङ्ग्रहस्य नैगमायुपगतार्थसङ्ग्रहप्रवणाध्यवसायविशेषत्वं लक्षणम् , अत्र नैगमायुपगतार्थत्युपादानासङ्ग्रहप्रवणे सामान्यनैगमे नातिव्याप्तिः, सङ्ग्रहमवणेत्यत्रसमइपदेन विशेषविनिर्मोकाऽशुद्धविषयविनिर्मोकान्यतरद्विवक्षितं,