________________
(११७)
रकगृहकोणादौ तद्वसतीति व्यवहारस्तु प्रत्यासत्तिदोषप्रमवभ्रान्तिनिबन्धन इति। शब्दसमभिरूढवम्भूताख्यास्त्रयः शब्दनयाः पुनः अन्यत्रान्यस्य सम्बन्धाभावात्स्वात्मन्येव वसतिमभ्युपगच्छन्तीति, एवमुक्तनिदर्शनैस्तेषां यथाक्रमं विशुद्विरवधार्या ।
लक्षणेन च लक्ष्यस्येतरमिन्नत्वेनावगतिर्भवतीत्येतदर्थमेतेषां लक्षणान्युपदर्यन्ते, तत्र सामान्यविशेषोभयाभ्युपगन्त्रध्यवसायविशेषत्वं नैगमत्वमिति नैगमस्य लक्षणं न सम्भवति भेदाभेदोमयोऽभ्युपगन्त्रध्यवसायविशेषस्वरूपे नैगमविशेषेऽव्याप्तेः, सामान्यविशेषो. भयाभ्युपगन्त्रध्यवसायविशेषादिरूपे नैगमेऽव्याप्त्या च भेदाभेदोभयाभ्युपगन्नध्यवसायविशेषत्वादिकमपि नैगमस्य लक्षणं न भवत्येव, तथा सामान्यविशेषोभयभेदाभेदोभयनित्यानित्योभयाद्यभ्युपगन्तृत्वश्च प्रत्येकं न क्वापीत्यसम्भवदोषग्रस्तत्वादेव लक्षणं न युज्यते किन्तु सामान्यविशेषोभयाभ्युपगन्नध्यवसायविशेषवृत्तिनयत्वन्यूनवृत्तिजातिमत्त्वं नैगमस्य लक्षणम् , सामान्यमात्राभ्युपगन्त्रध्यवसायविशेषलक्षणे सुग्रहेsतिव्याप्तिवारणार्थ विशेषस्याभ्युपगमविषयतयोपादानम्, विशेषमाशभ्युपगन्नध्यवसायविशेषलक्षणे व्यवहारेऽतिव्याप्तिनिरासार्थ सामान्यस्याभ्युपगमविषयतयोपादानम् , नयत्व