Book Title: Samvayangasutram
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
हार्थेन लब्धाः, अजीवादिष्वप्यष्टास्वेवमेव प्रतिपदं विंशतिर्विकल्पानामतो विंशतिनवगुणा शतमशीत्युत्तरं क्रियावा
दिनामिति, 'चउरासीए अकिरियवाईणं'ति एतेषां च खरूपं यथा नन्दादिषु तथा वाच्यं, नवरमेतद्याख्याने पुण्याBIपुण्यवर्जाः सप्त पदार्थाः स्थाप्यन्ते, तदधः खतः परतश्चेति पदद्वयं, तदधः कालादीनां षष्ठी यदृच्छा न्यस्यते. ततश्च
नास्ति जीवः खतः कालत इत्येको विकल्पः, एवमेते चतुरशीतिर्भवन्ति । 'सत्तट्ठीए अन्नाणियवाईणं'ति एतेऽपि तथैव, नवरं जीवादीन्नव पदार्थानुत्पत्तिदशमानुपरि व्यवस्थाप्याधः सप्त सदादयः स्थाप्याः, तद्यथा-सत्त्वमसत्त्वं सदसत्त्वमवाच्यत्वं सदवाच्यत्वमसदवाच्यत्वं सदसदवाच्यत्वमिति, तत्र को जानाति जीवस्य सत्त्वमित्येको विकल्पः, एवमसत्त्वमित्यादि, तत एते सप्त नवकास्त्रिषष्टिः, उत्पत्तेस्त्वाद्या एव चत्वारो वाच्याः, इत्येवं सप्तपष्टिरिति, तथा 'बत्तीसाए वेणइयवाईणं'ति, एते चैवं-सुरनृपतिज्ञातियतिस्थविराधममातृपितॄणां प्रत्येकं कायवाङ्मनोदानश्चतुर्की विनयः कार्य इत्यभ्युपगमवन्तो द्वात्रिंशदिति । एवं चैतेषां चतुणों वादिप्रकाराणां मीलने त्रीणि त्रिषष्ट्यधिकानि अन्यदृष्टिशतानि भवन्त्यत उच्यते-तिण्ह'मित्यादि, 'वूह किच'त्ति प्रतिक्षेपं कृत्वा 'खसमयो' जैनसि|द्धान्तः स्थाप्यते, यत एवं सूत्रकृतेन विधीयते अतस्तत्सूत्रार्थयोः खरूपमाह-'नाणे'त्यादि, नाना-अनेकविधाः बहै हुभिः प्रकारैरित्यर्थः, 'दिटुंतवयणनिस्सारंति स्याद्वादिना पूर्वपक्षीकृतानां प्रवादिनां खपक्षस्थापनाय यानि दृष्टा
न्तवचनान्युपलक्षणत्वाद्धेतुवचनानि च तदपेक्षया निस्सारं-सारताशून्यं परेषां मतमिति गम्यते, सुष्टु-पुनरप्रतिक्षेप
Jain Education
a
l
For Personal & Private Use Only
Alinelibrary.org

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326