Book Title: Samvayangasutram
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
किं इड्डिपत्तपमत्तसंजयसम्मदिट्ठिपजत्तसंखेजवासाउयकम्मभूमिगगब्भवकंतियमणुस्साहारगसरीरे अणिविपत्तपमत्तसंजयसम्मदिट्ठिपज्जत्तयसंखेजवासाउयकम्मभूमिगगब्भवतियमणुस्साहारगसरीरे ?, गोयमा!' द्वितीयस्य निषेधः प्रथमस्य चानुज्ञा वाच्या, एतदेवाह–'वयणा विभाणियचत्ति सूचितवचनान्यप्युक्तन्यायेन सर्वाणि भणनीयानि, वि-R भागेन पूर्णान्युच्चारणीयानीत्यर्थः, 'आहारयत्ति 'आहारगसरीरस्स केमहालिया सरीरोगाहणा पण्णत्ता ?, गोयमा! इत्येतत् सूचितं, 'जहण्णणं देसूणा रयणीति कथम्?, उच्यते, तथाविधप्रयत्नविशेषतस्तथारम्भकद्रव्यविशेषतश्च प्रारम्भकालेऽप्युक्तप्रमाणभावात् , न हीहौदारिकादेरिवाङ्गुलासंख्येयभागमात्रता प्रारम्भकाले इति भावः । 'तेयासरीरे णं भंते' इत्यादि, एवं यावत्करणात् प्रज्ञापनासत्कैकविंशतितमपदोक्तातैजसशरीरवक्तव्यता इह वाच्या, सा चेयमर्थतः-'एगिदियतेयगसरीरे णं भंते ! कतिविहे पण्णत्ते?,गोयमा !पंचविहे पण्णत्ते, तंजहा-पुढवीजाववणस्सइकाइयएगिदियतेयगसरीरे,' एवं जीवराशिप्ररूपणाऽनुसारेण सूत्रं भावनीयं, यावत् 'सवठ्ठसिद्धगअणुत्तरोववाइयकप्पातीतवेमाणियदेवपंचेन्दियतेयगसरीरेणंभंते! किंसंठिए?, नाणासंठाणसंठिए' यस्य पृथिवादिजीवस्य यदौदारिकादिशरीरसंस्थानं तदेव तैजसस्य कार्मणस्य च, तथा जीवस्य मारणान्तिकसमुद्घातगतस्य कियती तैजसी शरीरावगाहना ?, शरीरमात्रा विष्कम्भबाहल्याभ्यामायामतस्तु जघन्येनाङ्गुलस्यासंख्येयभाग उत्कर्षत ऊर्द्धमधश्च लोकान्ताल्लोकान्तं यावदेकेन्द्रियस्य, ततस्तत्रोत्पत्तिमङ्गीकृत्येति भावः, एवं सर्वेषामेवैकेन्द्रियाणांद्वीन्द्रियाणांतु आयामत उत्कर्षेण तिर्यग्लोकालोकान्तं यावत्प्रायस्तियंग्
SUSASAASAASAASASIRANGAY
jain Education
a
l
For Personal & Private Use Only
ainelibrary.org

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326