Book Title: Samvayangasutram
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
तद्विमानान्येवेति, एवं कार्मणस्याप्यवगाहना दृश्या समानत्वादेव तयोरिति । उक्तार्थमेव सूत्रांशमाह-गेवेजगस्स ण' मित्यादि। अनन्तरं शरीरिणामवगाहनाधर्म उक्तोऽधुना त्ववधिधर्मप्रतिपादनायाह-'भेय विसयसंठाणे अभितर बाहिरे यदेसोही । ओहिस्स वुड्डिहाणी पडिवाई चेव अपडिवाई ॥१॥' द्वारगाथा, तत्र भेदोऽवधेर्वक्तव्यो, यथा द्विविधोऽवधिर्भवति-भवप्रत्ययः क्षायोपशमिकश्च, तत्र भवप्रत्ययो देवनारकाणां क्षायोपशमिको मनुष्यतिरश्चामिति, तथा विषयो-गोचरोऽवधेर्वाच्यः, स च चतुर्द्धा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो जघन्येन तेजोभाषयोरग्रहणप्रा-| योग्यानि द्रव्याणि जानाति, उत्कर्षतस्तु सर्वमेकाणुकाद्यनन्ताणुकान्तं रूपिद्रव्यजातं जानाति, क्षेत्रं जघन्यतोऽङ्गुला-3 संख्येयभागं जानाति उत्कर्षतोऽसंख्येयान्यलोके लोकमात्राणि खण्डानि जानाति, कालं जघन्यत आवलिकाया असंख्येयभागमतीतमनागतं च जानाति, उत्कर्षतः संख्यातीता उत्सर्पिण्यवसर्पिणीर्जानाति, भावतो जघन्यतः। प्रतिद्रव्यं चतुरो वर्णादीन् उत्कर्षतःप्रतिद्रव्यमसंख्येयान् सर्वद्रव्यापेक्षया त्वनन्तानिति, तथा संस्थानमवधेर्वाच्यं, यथा | नारकाणां तप्राकारोऽवधिः पल्याकारो भवनपतीनां पटहाकारो व्यन्तराणां झलाकृतियॊतिष्काणां मृदङ्गाकारः क-18 ल्पोपपन्नानां पुष्पावलीरचितशिखरचङ्गाकारो ग्रैवेयकाना कन्याचोलकसंस्थानोऽनुत्तरसुराणां लोकनाल्याकृतिरित्य तिर्यमनुष्याणां तु नानासंस्थान इति, तथा 'अभितर'त्ति के अवधिप्रकाशितक्षेत्रस्याभ्यन्तरे वर्तन्ते इति वाच्यं,
94- 950%
AC-C
२५ सम०
dain Educationala
For Personal & Private Use Only
nelibrary.org

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326