Book Title: Samvayangasutram
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
18 युक्तः प्रथमोऽस्थिवन्धः मर्कटपट्टाभ्यां द्वितीयः मर्कटयुक्तस्तृतीयः मर्कटकैकदेशबन्धनद्वितीयपार्श्वकीलिकासम्बन्धश्च
तर्थः अङ्गलिद्वयसंयुक्तस्य मध्यकीलिकैव दत्ता यत्र तत्कीलिकासंहननं पञ्चमं यत्रास्थीनि चर्मणा निकाचितानि केवलं तत्सेवा, स्नेहपानादीनां नित्यपरिशीलना सेवा तया ऋतं व्याप्तं सेवार्चमिति षष्ठं, 'छण्हं संघयणाणं असंघयणे'त्ति उक्तरूपाणां षण्णां संहननानामन्यतमस्याप्यभावेनासंहनिनः-अस्थिसञ्चयरहिताः, अत एवाह-'नेवट्ठी'नैवास्थीनि तच्छरीरके 'नेव छिर'त्ति नैव शिरा-धमन्यः 'णेव पहारु'त्ति नैव स्नायूनीतिकृत्वा संहननाभावः, तत्सहितानां हि प्रचुरमपि दुःखं न बाधाविधायि स्यात्, नारकास्त्वत्यन्तशीतादिवाधिता इति, न चास्थिसञ्चयाभावे शरीरं नोपपीड्यते, स्कन्धवत्तदुपपत्तेः, अत एवाह–'जे पोग्गले'त्यादि, ये पुद्गला अनिष्टाः-अवल्लभाः सदैवैषां सामान्येन तथा अकान्ता-अकमनीयाः सदैव तद्भावेन तथा अप्रिया-द्वेष्याः सर्वेषामेव तथाऽशुभाः-प्रकृत्यसुन्दरतया अमनोज्ञा-अम-18 नोरमाः कथयापि तथा अमनःआपा-न मनःप्रियाश्चिन्तयापि ते एवंभूताः पुद्गलास्तेषां-नारकाणां 'असंघयणत्ताएत्ति अस्थिसञ्चयविशेषरहितशरीरतया परिणमंति, 'कइविहे गं भंते! संठाणे' यादि, तत्र मानोन्मानप्रमाणानि I अन्यूनान्यनतिरिक्तानि अङ्गोपाङ्गानि च यस्मिन् शरीरसंस्थाने तत्समचतुरस्रसंस्थानं, तथा नामित उपरि सर्वावयवाश्चतुरस्रा-लक्षणाऽविसंवादिनोऽधस्तु तदनुरूपं यन्न भवति तन्यग्रोधसंस्थानं तथा नाभितोऽधः सर्वावयवाश्चतुरस्रा लक्षणाविसंवादिनो यस्योपरि च यत्तदनुरूपं न भवति तत्सादिसंस्थानं, तथा ग्रीवा हस्तपादाश्च समचतुरस्रा लक्ष
SANSARSARKARNAKALA
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326