Book Title: Samvayangasutram
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 281
________________ रयोरन्तरमष्टहस्तो मार्गः पाठान्तरेण 'चतुरयन्ति चतुरकाः समाविशेषाः ग्रामप्रसिद्धाः 'दारगोउर'त्ति गोपुरद्वाराणि प्रतोल्यो-नगरस्यैव कपाटानि प्रतीतानि तोरणान्यपि तथैव प्रतिद्वाराणि-अवांतरद्वाराणि तत एतेषां द्वन्द्व एतानि देशलक्षणेपु भागेषु येषां तानि तथा, इह देशो भागश्चानेकार्थः, ततोऽन्योऽन्यमनयोर्विशेष्यविशेषणभावो दृश्य इति, तथा जंताणि-पाषाणक्षेपणयत्राणि मुशलानि प्रतीतानि मुसुंढ्यः-प्रहरणविशेषाः शतभ्यः-शतानामुपैघातकारिण्यो महाकायाः काष्ठशैलस्तम्भयष्टयः ताभिः 'परिवारियत्ति-परिवारितानि परिकलितानीत्यर्थः, तथा अयोध्यानि-योधयितुंसङ्गामयितुंदुर्गत्वान्न शक्यन्ते परबलानि तान्ययोध्यानि अविद्यमाना वायोधाः-परबलसुभटा यानि प्रति तान्ययोधानि, तथा अडयालकोटगरइय'त्ति अष्टचत्वारिंशद्भेदभिन्नविचित्रच्छन्दगोपुररचितानि, अन्ये भणन्ति-अडयालिय(ल)शब्दः किल प्रशंसावाचकः, तथा 'अडयालकयवणमाल'त्ति अष्टचत्वारिंशद्भेदभिन्नाः प्रशंसाः कृतावनमाला-वनस्पतिपल्लवस्त्रजो येषु तानि तथा, 'लाइयंति यद्भमेश्छगणादिनोपलेपनं 'उल्लोइयंति कुड्यमालानां सेटिकादिभिः सम्मृष्टीकरणं ततस्ताभ्यामिव महितानि-पूजितानि लाउलोइयमहितानि, तथा गोशीर्ष-चन्दनविशेषः सरसं च-रसोपेतं यद्रक्तचन्दनं-चन्दनविशेषः ताभ्यां दर्दराभ्यां-घनाभ्यां दत्ताः पञ्चाङ्गुलयस्तला-हस्तकाः कुड्यादिषु येषु, अथवा गोशीर्षसरसरक्तचन्दनस्य सत्का दर्दरेण-चपेटाभिघातेन दर्दरेषु वा-सोपानवीथीषु दत्ताः पञ्चाङ्गुलयस्तला येषु तानि गोशीर्षसरसरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितलानि, तथा कालागुरु:-कृष्णागुरुर्गन्धद्रव्यविशेषः प्रवरः-प्रधानः कुन्दुरुकः-चीडा Jain Education a l For Personal & Private Use Only alinelibrary.org

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326