Book Title: Samvayangasutram
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
श्रीसमवा
१५२ शरीरसूत्रं..
यांगे
श्रीअभय वृत्तिः
॥१४२॥
CIENCERCACANCHECCLOCALS
वदिति, अथवा मांसास्थिपूयवद्धं यच्छरीरं तत्समयपरिभाषया उरालमिति, तच तच्छरीरं चेति प्राकृतत्वादोरालियं शरीरं, तस्यावगाहन्ते यस्यां साऽवगाहना-आधारभूतं क्षेत्रं शरीराणामवगाहना शरीरावगाहना अथवौदारिकशरीरस्य जीवस्य औदारिकशरीररूपावगाहना सा भदन्त ! केमहालिया-किम्महती प्रज्ञप्ता ?, तत्र जघन्यनामुलासंख्येय
- |भागं यावत् पृथिव्याद्यपेक्षया उत्कर्षेण सातिरेकं योजनसहस्रमिति बादरवनस्पत्यपेक्षयेति ‘एवं जाव माणुस्से'त्ति इह एवं यावत्करणादवगाहनासंस्थानाभिधानप्रज्ञापनकविंशतितमपदाभिहितग्रन्थोऽर्थतोऽयमनुसरणीयः, तथाहिएकेन्द्रियौदारिकस्य पृच्छा निर्वचनं च तदेव, तथा पृथिव्यादीनां चतुर्णा बादरसूक्ष्मपर्याप्तापर्याप्सानां जघन्यत उत्कृटतश्चाङ्गुलासंख्येयभागो, वनस्पतीनां बादरपर्याप्तानामुत्कर्षतः साधिकं योजनसहस्रं, शेषाणां त्वङ्गुलासंख्येयभाग है एव, द्वित्रिचतुरिन्द्रियाणां पर्याप्तानामुत्कर्षतोऽनुक्रमेण द्वादश योजनानि त्रीणि गव्यूतानि चत्वारि चेति, पञ्चेन्द्रियतिरश्चां जलचराणां पर्याप्तानां गर्भजानां संमूर्छनजानां चोत्कर्षतो योजनसहस्रं, एवं स्थलचराणां चतुष्पदानां संमूर्छनजानांपर्याप्तानां गव्यूतपृथक्त्वं गर्भव्युत्क्रान्तिकानां तेषां षड् गव्यूतानि उरःपरिसप्पाणां गर्भव्युत्क्रान्तिकानां योजनसहस्रं एषामेव सम्मूर्छनजानां योजनपृथक्त्वं भुजपरिसाणांगर्भजानां गन्यूतपृथक्त्वं सम्मूर्छनजानां च धनु:पृथक्त्वं खचराणां गर्भजानां सम्मूर्छनजानां च धनुःपृथक्त्वमेव, तथा मनुष्याणां गर्भव्युत्क्रान्तिकानां गव्यूतत्रयं सम्मूर्च्छनजानामङ्गुलासंख्येयभागः, एष एव सर्वत्र जघन्यपदे अपर्याप्तपदे चेति, तथा 'कइविहे ण'मित्यादि स्पष्टं, नवरं
॥१४२॥
Jain Education
For Personal & Private Use Only
helorary.org

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326