Book Title: Samvayangasutram
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 284
________________ श्रीसमवा यांगे श्रीअमय ० वृति: ॥१३९॥ भ्युदयस्तत्संसूचिका वैजयन्तीत्यभिधाना याः पताका अथवा विजयाँ इति वैजयन्तीनां पार्श्वकर्णिका उच्यन्ते तत्प्रधाना या वैजयंत्यस्ताश्च तद्वर्जिताः पताकाश्च छत्रातिच्छत्राणि च - उपर्युपरिस्थितातपत्राणि तैः कलिता-युक्ता वातो|द्धूतविजयवैजयन्तीपताकाछत्रातिच्छत्रकलिता इति, तुङ्गा उच्चैस्त्वगुणयुक्ता, अत एव 'गगनतलमणुलिहंत सिहरति गगनतलं - अम्बरतलमनुलिखद्-अभिलङ्घयच्छिखरं येषां ते गगनतलानुलिखच्छिखराः, तथा जालान्तरेषु - जालकमध्यभागेषु रत्नानि येषां ते जालान्तररत्नाः, इह प्रथमाबहुवचनलोपो द्रष्टव्यः, जालकानि च भवनभित्तिषु लोके प्रतीतान्येव तदन्तरेषु च शोभार्थ रत्नानि सम्भवन्त्येवेति, तथा पअरोन्मीलिता इव पञ्जरबहिष्कृता इव, यथा किल किञ्चिद्वस्तु पञ्जराद्-वंशादिमयप्रच्छादनविशेषाद्वहिः कृतमत्यन्तमविनष्टच्छायत्वाच्छोभते एवं तेऽपीति भावः, तथा मणिकनकानां सम्बन्धिनी स्तूपिका- शिखरं येषां ते मणिकनकस्तूपिकाकाः, तथा विकसितानि यानि शतपत्रपुण्डरीकाणि | द्वारादौ प्रतिकृतित्वेन तिलकाश्र-भित्त्यादिषु पुण्ड्राणि रत्नमयाश्च ये अर्द्धचन्द्रा द्वाराग्रादिषु तैश्चित्रा ये ते विकसि तशतपत्र पुण्डरीकतिलकरत्नार्द्धचन्द्र चित्राः, तथा अन्तर्बहिश्च लक्ष्णा मसृणा इत्यर्थः, तथा तपनीयं - सुवर्णविशेषस्त|न्मय्या वालुकायाः - सिकतायाः प्रस्तटः - प्रतरो येषु ते तपनीयवालुकाप्रस्तटाः, अथवा सण्हशब्दस्य वालुकाविशेषणत्वात् श्लक्ष्णतपनीयवालुकाप्रस्तटा इति व्याख्येयं तथा सुखस्पर्शाः शुभस्पर्शा वा, तथा सश्रीकं - सशोभं रूपं - आकारो येषां अथवा सश्रीकाणि - शोभावन्ति रूपाणि- नरयुग्मादीनि रूपकाणि येषु ते सश्रीकरूपाः, प्रासादनीया Jain Education International For Personal & Private Use Only १५० भ वनाद्यावास. ॥१३९॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326