Book Title: Samvayangasutram
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
नकस्य कस्यचिदेवेत्यर्थः, 'एव'मित्यादि, यथाऽसुरकुमारावाससूत्रे तत्परिमाणमभिहितमेवमिति-तथा यद्भवनादिपरिमाणं यस्य नागकुमारादिनिकायस्य क्रमते-घटतेतत्तस्य वाच्यमिति, किंविधं तस्य परिमाणमत आह-जंज गाहाहि भणियं' यद्यद् गाथाभिः 'चउसट्टि असुराण'मित्यादिकाभिरभिहितं, किं परिमाणमेव तथा वाच्यं नेत्याह-'इह चेव वण्णओ'त्ति यथा असुरकुमारभवनानां वर्णक उक्तस्तथा सर्वेषामसौ वाच्य इति, तथाहि-'केवइया णं भंते ! नागकुमारावाससयसहस्सा पण्णत्ता ?, गोयमा! इमीसे णं रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहेत्ता हेट्टा चेगं जोयणसहस्सं वजेत्ता मज्झे अट्ठहत्तरे जोयणसहस्से एत्थ णं रयणप्पभाए चुलसीई नागकुमारावाससयसहस्सा भवन्तित्तिमक्खायंति, ते णं भवणा' इत्यादि, द्वीपकुमारादीनां तु षण्णां प्रत्येकं षट्सप्ततिर्वाच्येति । केवइया णं भंते! पुढवी'त्यादि गतार्थ, नवरं मनुष्याणां संख्यातानामेव गर्भव्युत्क्रान्तिकानां असंख्यातानामभावात् संख्याता एवावासाः, सम्मूछिमानां त्वसंख्येयत्वेन प्रतिशरीरमावासभावादसंख्येयानि | इति भावनीयमिति । 'केवइया णं भंते! जोइसियाणं विमाणावासा' इत्यादि, 'अब्भुग्गयमुसियपहसिय'त्ति अभ्युद्ता-सञ्जाता उत्सृता-प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा-दीप्तिस्तया सिताः-शुक्ला इत्यभ्युद्गतोत्सृतप्रभासिताः, तथा विविधा-अनेकप्रकारा मणयः-चन्द्रकान्ताद्या रत्नानि-कर्केतनादीनि तेषां भक्तयो-विच्छित्तिविशेषास्वाभिश्चित्राः-चित्रवन्तः आश्चर्यवन्तो वेति विविधमणिरत्नभक्तिचित्राः, तथा वातोद्भूता-वातकम्पिता विजया-अ
२४ सम.
Jain Education
For Personal & Private Use Only
Herelibrary.org

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326