SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ हार्थेन लब्धाः, अजीवादिष्वप्यष्टास्वेवमेव प्रतिपदं विंशतिर्विकल्पानामतो विंशतिनवगुणा शतमशीत्युत्तरं क्रियावा दिनामिति, 'चउरासीए अकिरियवाईणं'ति एतेषां च खरूपं यथा नन्दादिषु तथा वाच्यं, नवरमेतद्याख्याने पुण्याBIपुण्यवर्जाः सप्त पदार्थाः स्थाप्यन्ते, तदधः खतः परतश्चेति पदद्वयं, तदधः कालादीनां षष्ठी यदृच्छा न्यस्यते. ततश्च नास्ति जीवः खतः कालत इत्येको विकल्पः, एवमेते चतुरशीतिर्भवन्ति । 'सत्तट्ठीए अन्नाणियवाईणं'ति एतेऽपि तथैव, नवरं जीवादीन्नव पदार्थानुत्पत्तिदशमानुपरि व्यवस्थाप्याधः सप्त सदादयः स्थाप्याः, तद्यथा-सत्त्वमसत्त्वं सदसत्त्वमवाच्यत्वं सदवाच्यत्वमसदवाच्यत्वं सदसदवाच्यत्वमिति, तत्र को जानाति जीवस्य सत्त्वमित्येको विकल्पः, एवमसत्त्वमित्यादि, तत एते सप्त नवकास्त्रिषष्टिः, उत्पत्तेस्त्वाद्या एव चत्वारो वाच्याः, इत्येवं सप्तपष्टिरिति, तथा 'बत्तीसाए वेणइयवाईणं'ति, एते चैवं-सुरनृपतिज्ञातियतिस्थविराधममातृपितॄणां प्रत्येकं कायवाङ्मनोदानश्चतुर्की विनयः कार्य इत्यभ्युपगमवन्तो द्वात्रिंशदिति । एवं चैतेषां चतुणों वादिप्रकाराणां मीलने त्रीणि त्रिषष्ट्यधिकानि अन्यदृष्टिशतानि भवन्त्यत उच्यते-तिण्ह'मित्यादि, 'वूह किच'त्ति प्रतिक्षेपं कृत्वा 'खसमयो' जैनसि|द्धान्तः स्थाप्यते, यत एवं सूत्रकृतेन विधीयते अतस्तत्सूत्रार्थयोः खरूपमाह-'नाणे'त्यादि, नाना-अनेकविधाः बहै हुभिः प्रकारैरित्यर्थः, 'दिटुंतवयणनिस्सारंति स्याद्वादिना पूर्वपक्षीकृतानां प्रवादिनां खपक्षस्थापनाय यानि दृष्टा न्तवचनान्युपलक्षणत्वाद्धेतुवचनानि च तदपेक्षया निस्सारं-सारताशून्यं परेषां मतमिति गम्यते, सुष्टु-पुनरप्रतिक्षेप Jain Education a l For Personal & Private Use Only Alinelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy