________________
श्रीसमवा
यांगे
त्रकृतात.
श्रीअभय वृत्तिः
॥११०॥
तथा सहजात्-खभावसम्पन्नात् न कुसमयश्रवणसम्पन्नाद्बुद्धिपरिणामातू-मतिखभावात् संशयो जातो येषा ते सहजबुद्धिपरिणामसंशयिताः सन्देहजाताश्च सहजबुद्धिपरिणामसंशयिताश्च येते तथा तेषां श्रमणानामिति प्रक्रमः, किमत आह-पापकरो' विपर्ययसंशयात्मकत्वेन कुत्सितप्रवृत्तिनिबन्धनत्वादशुभकर्महेतुरत एव च मलिनः-खरूपाच्छादनादनिर्मलो यो मतिगुणो-बुद्धिपर्यायस्तस्य विशोधनाय-निर्मलत्वाधानाय पापकरमलिनमतिगुणविशोधनार्थ । 'असीयस्स किरियावाइयसयस्स'त्ति अशीत्यधिकस्य क्रियावादिशतस्य व्यूहं कृत्वा स्वसमयः स्थाप्यत इति योगः, एवं शेषेष्वपि पदेषु क्रिया योजनीयेति, तत्र न कर्तारं विना क्रिया संभवतीति तामात्मसमवायिनी है वदन्ति ये तच्छीलाश्च ते क्रियावादिनः, ते पुनरात्माद्यस्तित्वप्रतिपत्तिलक्षण अमुनोपायेनाशीत्यधिकशता
संख्या विज्ञेयाः-जीवाजीवाश्रवबन्धसम्वरनिर्जरापुण्यापुण्यमोक्षाख्यान्नव पदार्थान् विरचय्य परिपाट्या जीवपदार्थस्थाधः खपरभेदावुपन्यसनीयौ, तयोरधो नित्यानित्यभेदी, तयोरप्यधः कालेश्वरात्मनियतिखभावभेदाः पञ्च न्यसनीयाः, पुनरित्थं विकल्पाः कर्त्तव्याः-अस्ति जीवः खतो नित्यः कालत इत्येको विकल्पो, विकल्पार्थश्वायंविद्यते खल्वात्मा खेन रूपेण नित्यश्च कालवादिनः, उक्तेनैवाभिलापेन द्वितीयो विकल्प ईश्वरकारणिकस्य, तृतीयः आत्मवादिनश्चतुर्थो नियतिवादिनः पञ्चमः खभाववादिनः, एवं खत इत्यपरित्यजता लब्धाः पञ्च विकल्पाः, परत इत्यनेनापि पञ्च लभ्यन्ते, नित्यत्वापरित्यागेन चैते दश विकल्पाः, एवमनित्यत्वेनापि दशैव, एवं विंशतिर्जीवपदा
॥११०॥
Jain Education me
For Personal & Private Use Only
Mainelibrary.org