________________
CCCCASHRUGALGAOCACCROCED
सिजंति उवदंसिजंति, से एवं आया एवं णाया एवं विण्णाया एवं चरणकरणपरूवणया आपविजंति पण्णविजंति परूविजंति निदंसिर्जति उवदंसिर्जति, से तं सूअगडे २ ॥ सूत्रं १३७ ॥ 'से किं तं सूयगडे' 'सूच सूचायां' सूचनात् सूत्रं सूत्रेण कृतं सूत्रकृतमिति रूढयोच्यते, 'सूयगडेणं ति सूत्रकृतेन सूत्रकृते वा खसमयाः सूच्यन्ते इत्यादि कण्ठ्यं, तथा सूत्रकृतेन जीवाजीवपुण्यपापाश्रवसंवरनिर्जराबन्धमोक्षावसानाः पदार्थाः सूच्यन्ते, तथा 'समणाणमित्यादि, अत्र श्रमणानां मतिगुणविशोधनार्थ खसमयः स्थाप्यत इति वाक्यार्थः,13 तत्र श्रमणानां किंभूतानां ?-अचिरकालप्रव्रजितानां, चिरकालप्रव्रजिता हि निर्मालमतयो भवन्ति, अहर्निशं शास्त्रपरिचयाबहुश्रुतसंपर्काचेति, पुनः किंभूतानां ?-'कुसमयमोहमोहमइमोहियाणं ति कुत्सितः समयः सिद्धान्तो येषां ते कुसमयाः-कुतीर्थिकास्तेषां मोहः-पदार्थेष्वयथावबोधः कुसमयमोहस्तस्माद्यो मोहः-श्रोतृमनोमूढता तेन मतिर्मोहिता-मूढतां नीता येषां ते कुसमयमोहमतिमोहिताः, अथवा कुसमयाः-कुसिद्धान्तास्तेषां ओघःसंघो मकारस्तु प्राकृतत्वात् तस्माद्यो मोहः-श्रोतृमनोमूढता तेन मतिर्मोहिता येषां ते कुसुमयौघमोहमतिमोहिताः, अथवा कुसमयानां-कुतीर्थिकानां मोहो.मोघो वा-शुभफलापेक्षया निष्फलो यो मोहस्तेन मतिर्मोहिता येषां ते कुसमयमोहमोहमतिमोहिताः कुसमयमोघमोहमतिमोहिता वा तेषां, तथा संदेहाः-वस्तुतत्त्वं प्रति संशयाः कुसमयमोहमतिमोहितानामिति विशेषणसान्निध्यात् कुसमयेभ्यः सकाशात् (ते) जाता येषां ते सन्देहजाताः,
JainEducation
For Personal & Private Use Only
www.janelibrary.org