Book Title: Samvayangasutram
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 268
________________ श्रीसमवायांगे श्रीअभय० वृत्तिः ॥१३१॥ Jain Education 1 ख्यानं नवमं तत्र सर्व प्रत्याख्यानस्वरूपं वर्ण्यत इति प्रत्याख्यानप्रवादं तत्परिमाणं चतुरशीतिः पदशतसहस्राणीति, विद्यानुप्रवादं दशमं तत्रानेके विद्यातिशया वर्णितास्तत्परिमाणमेका पदकोटी दश च पदशतसहस्राणीति, अवन्ध्यमे कादर्श, वन्ध्यं नाम निष्फलं न वन्ध्यमवन्ध्यं सफलमित्यर्थः, तत्र हि सर्वे ज्ञानतपःसंयमयोगाः शुभफलेन सफला वर्ण्यन्ते अप्रशस्ताश्च प्रमादादिकाः सर्वे अशुभफला वर्ण्यन्ते अतोऽवन्ध्यं तस्य च परिमाणं षडूविंशतिः पदकोटयः, प्राणायुर्द्वादशं तत्राप्यायुः प्राणविधानं सर्वं सभेदमन्ये च प्राणा वर्णितास्तत्परिमाणमेका पदकोटी षट्पञ्चाशच पदशतसहस्राणीति, क्रियाविशालं त्रयोदशं तत्र कायिक्यादयः क्रिया विशालत्ति - सभेदाः संयमक्रिया छन्दक्रिया विधानानि च वर्ण्यन्त इति क्रियाविशालं, तत्पदपरिमाणं नव पदकोट्यः, लोकविन्दुसारं च चतुर्दशमं तचास्मिन् | लोके श्रुतलोके वा बिन्दुरिवाक्षरस्य सर्वोत्तममिति, सर्वाक्षरसन्निपातप्रतिष्ठितत्वेन च लोकबिन्दुसारं भणितं, तत्प्रमाणमर्द्धत्रयोदश पदकोट्य इति । ' उपाय पुवस्से त्यादि कण्ठ्यं, नवरं वस्तु नियतार्थाधिकारप्रतिबद्धो ग्रन्थविशेषोऽध्ययनवदिति, तथा चूडा इव चूडा, इह दृष्टिवादे परिकर्म्मसूत्रपूर्वगतानुयोगोक्तानुक्तार्थसङ्ग्रहपरा ग्रंथपद्धतयश्रूडा इति, 'सेत्तं पुत्रगते' त्ति निगमनं, 'से किं तमित्यादि, अनुरूपोऽनुकूलो वा योगोऽनुयोगः सूत्रस्य निजेनाभिधेयेन सार्द्धमनुरूपः सम्बन्ध इत्यर्थः, स च द्विविधः प्रज्ञप्तः, तद्यथा-मूलप्रथमानुयोगश्च गण्डिकानुयोगश्च, 'से किं तमि त्यादि, इह धर्म्मप्रणयनात् मूलं तावत्तीर्थकरास्तेषां प्रथमसम्यक्त्वासिलक्षणपूर्व भवादिगोचरोऽनुयोगो मूलप्रथमानु For Personal & Private Use Only १४७ ह ष्टिवादः ॥१३१॥ nelibrary.org

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326