Book Title: Samvayangasutram
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 271
________________ गोष्ठामाहिलवत उभयाज्ञया पुनः पञ्चविधाचारपरिज्ञानकरणोद्यतगुवोदेशादेरन्यथाकरणलक्षणया गुरुप्रत्यनीकद्रव्यलि धार्यनेकश्रमणवत् सूत्रार्थोभयैर्विराध्येत्यर्थः, अथवा द्रव्यक्षेत्रकालभावापेक्षमागमोक्तानुष्ठानमेवाज्ञा तया तदकरणेनेत्यर्थः, 'इचेय'मित्यादि गतार्थमेव, नवरं 'परित्ताजीवा' इति संख्येया जीवाः, वर्तमाने विशिष्टविराधकमनुष्यजीवानां संख्येयत्वात् 'अणुपरियदृति'त्ति अनुपरावर्त्तन्ते भ्रमन्तीत्यर्थः, 'इचेय'मित्यादि इदमपि भावितार्थमेव, नवरम् 'अणुपरियट्टिस्संति'त्ति अनुपरावर्तिष्यन्ते पर्यटिष्यन्तीत्यर्थः, 'इच्चेय'मित्यादि कण्ठ्यं, नवरं 'विइवइंसुत्ति व्यतित्रजितवन्तः चतुर्गतिकसंसारोलबनेन मुक्तिमवाप्सा इत्यर्थः, एवं प्रत्युत्पन्नेऽपि, नवरं अयं विशेषः-'विइवयंति'त्ति व्यतिब्रजन्ति-व्यतिक्रामन्तीत्यर्थः, अनागतेऽप्येवं, नवरं वीइवइस्संति'त्ति व्यतित्रजिष्यन्ति-व्यतिक्रमिष्यन्तीत्यर्थः, यदिदमनिप्टेतरभेदभिन्नं फलं प्रतिपादितमेतत्सदावस्थायित्वे सति द्वादशाङ्गस्योपजायत इत्याह-'दुवालसंगे' इत्यादि, द्वादशाङ्गं णमित्यलङ्कारे गणिपिटकं न कदाचिन्नासीदनादित्वात् न कदाचिन्न भवति सदैव भावात् न कदाचिन्न भविष्यति अपर्यवसितत्वात्, किं तर्हि ?, 'भुविं चेत्यादि अभूच भवति च भविष्यति च, ततश्चेदं त्रिकालभावित्वादचलं अचलत्वाच ध्रुवं मेर्वादिवत् ध्रुवत्वादेव नियतं पञ्चास्तिकायेषु लोकवचनवत् नियतत्वादेव शाश्वतं समयावलिकादिषु का-18 लवचनवत् शाश्वतत्वादेव वाचनादिप्रदानेऽप्यक्षयं गङ्गासिन्धुप्रवाहेऽपि पद्मइदवत् अक्षयत्वादेवाव्ययं मानुषोत्तराद्वहिः समुद्रवत् अव्ययत्वादेव खप्रमाणेऽवस्थितं जम्बूद्वीपादिवत् अवस्थितत्वादेव नित्यमाकाशवदिति, साम्प्रतं दृष्टा २३ सम. Jain Education.inand For Personal & Private Use Only IMinelibrary.org

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326