Book Title: Samvayangasutram
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
१४५ प्र. व्याकर
णदशाः
श्रीसमवा-2'अदाग'त्ति आदर्शश्वाङ्गुष्ठश्च बाहू च असिश्च मणिश्च क्षौमं च-वस्त्रं आदित्यश्चेति द्वन्द्वस्ते आदिर्येषां कुज्यशङ्खघंटा-
यांगे दीनां ते तथा तेषां सम्बन्धिनीनां, प्रश्नविद्याभिरादर्शकादीनामावेशनात् , किंभूतानां प्रश्नानामत आह-विविध- श्रीअभय महाप्रश्नविद्याश्च-वाचैव प्रश्ने सत्युत्तरदायिन्यः मनःप्रश्वविद्याश्च-मनःप्रनितार्थोत्तरदायिन्यस्तासां देवतानि-तदधिवृत्तिः
ठातृदेवतास्तेषां प्रयोगप्राधान्येन-तद्यापारप्रधानतया गुणं-विविधार्थसंवादनलक्षणं प्रकाशयन्ति-लोके व्यञ्जयन्ति ॥१२४॥
|यास्ता विविधमहाप्रश्नविद्यामनःप्रश्नविद्यादैवतप्रयोगप्राधान्यगुणप्रकाशिकास्तासां, पुनः किंभूतानांप्रश्नानां ?-सद्भूतेनतात्त्विकेन द्विगुणेन पुनः उपलक्षणत्वाल्लौकिकप्रश्नविद्याप्रभावापेक्षया बहुगुणेन पाठान्तरे विविधगुणेन प्रभावेन-माहात्म्येन नरगणमतेः-मनुजसमुदयबुद्धेविस्मयकार्य:-चमत्कारहेतवो याः प्रश्नास्ताः सद्भतद्विगुणप्रभावनरगणमतिविस्मयकार्यस्तासां, पुनः किंभूतानां तासां ?-'अतिसयमतीतकालसमयेति अतिशयेन योऽतीतः कालः समयः स तथा तत्र, अतिव्यवहिते काले इत्यर्थः, दमः-शमस्तत्प्रधानः तीर्थकराणां-दर्शनान्तरशास्तृणामुत्तमो यः स तथा भगवान्-जिनस्तस्य दमतीर्थकरोत्तमस्य स्थितिकरणं-स्थापनं, आसीद् अतीतकाले सातिशयज्ञानादिगुणयुक्तः सकल
प्रणायकशिर शेखरकल्पः पुरुषविशेषः एवंविधप्रश्नानामन्यथानुपपत्तेरित्येवंरूपं, तस्य प्रतिष्ठापनस्य कारणानि-हेकातवो यास्तास्तथा तासां, पुनस्ता एव विशिनष्टि-दुरभिगम-दुःखबोधं गम्भीरं सूक्ष्मार्थत्वेन दुरवगाहं च-दुःखाध्येयं
सूत्रबहुत्वाद्यत्तस्य सर्वेषां सर्वज्ञानां सम्मतं-इष्टं सर्वसर्वज्ञसम्मतं अथवा सर्व च तत्सर्वज्ञसम्मतं चेति सर्वसर्वज्ञसम्मतं
॥१२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326