Book Title: Sammatitarka Prakaranam Part 1
Author(s): Siddhasen Divakarsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

Previous | Next

Page 151
________________ १०६ संमतितर्कप्रकरणे, काण्ड-२, गाथा-७ [ क्रमवादिमतेऽनुमानविरोधवदागमविरोधोऽप्यापततीति प्रदर्शनम् ] न केवलं क्रमवादिनोऽनुमानविरोधः आगमविरोधोऽपीत्याह सुत्तम्मि चेव साई अपज्जवसियं ति केवलं वुत्तं । सुत्तासायणभीरूहि तं च दट्ठव्वयं होइ ।।७।। साद्यपर्यवसाने केवलज्ञानदर्शने क्रमोपयोगे तु द्वितीयसमये तयोः पर्यवसानमिति कुतोऽपर्यवसितता ? तेन क्रमोपयोगवादिभिः सूत्रासादनाभीरुभिः “केवलणाणे णं भंते !" [ ] इत्यादि आगमे साद्यपर्यवसानताभिधानं केवलज्ञानस्य केवलदर्शनस्य च द्रष्टव्यं पर्यालोचनीयं भवति । सूत्रासादना चात्र सर्वज्ञाधिक्षेपद्वारेण द्रष्टव्या अचेतनस्य वचनस्याधिक्षेपायोगात् । न च द्रव्यापेक्षयाऽपर्यवसितत्वम् द्रव्यविषयप्रश्नोत्तराश्रुतेः । अथ भवतोऽपि कथं तयोरपर्यवसानता पर्यायाणामुत्पादविगमात्मकत्वात् ? न च द्रव्यापेक्षयैतदिति वाच्यम् अस्मत्पक्षेऽप्यस्य समानत्वात् । तद्विषयप्रश्नप्रतिवचनाभावान्नेति चेत् तर्हि भवतोऽपि द्रव्यापेक्षयाऽपर्यवसानकथनमयुक्तम्, असदेतत्; तयोर्युगपद् रूपरसयोरिवोत्पादाभ्युपगमान्न ऋजुत्व-वक्रतावत् । एवमपि सपर्यवसानतेति चेत्, न; कथंचित् केवलिद्रव्यादव्यतिरेकतस्तयोरपर्यवसितत्वात् । न च क्रमैकान्तेऽप्येवं भविष्यत्यनेकान्तविरोधात् । न चात्रापि तथाभावस्तथाभूतात्मकैककेवलिद्रव्याभ्युपगमात् रूपरसात्मकैकद्रव्यवद् अक्रमरूपत्वे च द्रव्यस्य तदात्मकत्वेन तयोरप्यक्रम एव । न च तयोस्तद्रूपतया तथाभावो न स्वरूपतस्तथात्वेऽनेकान्तरूपताविरोधान्निरावरणस्याक्रमस्य क्रमरूपत्वविरोधाञ्च तस्यावरणकृतत्वात् । किञ्च, यदि सर्वथा क्रमेणैव तयोरुत्पत्तिरनेकान्तविरोधः । अथ कथञ्चित् तदा युगपदुत्पत्तिपक्षोऽप्यभ्युपगतः । न च द्वितीये क्षणे तयोरभावे अपर्यवसितता छाद्मस्थिकज्ञानस्येव युक्ता । पुनरुत्पादादपर्यवसितत्वे पर्यायस्याप्यपर्यवसितताप्रसक्तिः । द्रव्यार्थतया तत्त्वे द्वितीयक्षणेऽपि तयोः सद्भावोऽन्यथा द्रव्यार्थत्वायोगात् ।।७।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314