Book Title: Sammatitarka Prakaranam Part 1
Author(s): Siddhasen Divakarsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

Previous | Next

Page 269
________________ ૨૨૪ संमतितर्कप्रकरणे, काण्ड-३, गाथा-५८-५९-६० एकान्तवचनीयस्य तदितरधर्माननुषक्तस्य अनेकदोषदुष्टतया निवर्तयितुं शक्यत्वात् । यदि तत् तथा द्वितीयधर्माक्रान्तं स्यात्' शब्दयोजनेन पुरिल्लः पूर्वपक्षवादी अदर्शयिष्यत ततोऽसौ नैक केनचिद् अजेष्यत । जितप्टासौ तथाभूतस्य साध्यधर्मिणोऽप्रदर्शनात् प्रदर्शितस्य च एकान्तरूपस्य असत्त्वात् तत्प्रदर्शकोऽसत्यवादितया निग्रहार्ह इति ।।५८ ।। [ एकान्तानिष्टिातरूपाभ्यां वस्तु वदतो लोककपरीक्षकाग्राह्यावचनत्वकथनम् ] एतदेव दर्शयन्नाह एयन्ताऽसब्भूयं सब्भूयमणिच्छियं च वयमाणो । लोइय-परिच्छियाणं वयणिज्जपहे पडइ वादी ।।५९।। आस्तां तावद् एकान्तेन असद्भूतम् असत्यम्, सद्भूतमपि अनिष्टिातं वदन् वादी लौकिकानाम् परीक्षकाणां च वचनीयमार्ग पतति ।।५९ ।। [ निर्दोषभावप्ररूपणाया मार्गप्रकाशनम् ] स एव च सन्मार्गः इति उपसंहरन्नाह दव्वं खित्तं कालं भावं पज्जाय-देस-संजोगे । भेदं च पडुञ्च समा भावाणं पण्णवणपज्जा ।।६०।। द्रव्य-क्षेत्र-काल-भाव-पर्याय-देश-संयोगान् भेदं चेत्यष्टौ भावान् आश्रित्य वस्तुनो भेदे सति समा सर्ववस्तुविषयायाः प्रज्ञापनायाः स्याद्वादरूपायाः पर्या पन्था मार्ग इति यावत् । तत्र द्रव्यं पृथिव्यादि, क्षेत्रं स्वारम्भकावयवस्वरूपं तदाश्रयं वा आकाशम्, कालं युगपदयुगपञ्चिरक्षिप्रप्रत्ययलिङ्गलक्षणं वर्तनात्मकं वा नव-पुराणादिलक्षणम्, भावं मूलाङ्कुरादिलक्षणम्, पर्यायं रूपादिस्वभावम्, देशं मूलाङ्कुरपत्रकाण्डादिक्रमभाविविभागम्, संयोगं भूम्यादिप्रत्येकसमुदायं द्रव्य-पर्यायलक्षणम्, भेदं प्रतिक्षणविवर्तात्मकं वा जीवाजीवादिभावानां प्रतीत्य समानतया तदतदात्मकत्वेन प्रज्ञापना निरूपणा या सा सत्पथ इति न हि तदतदात्मकैकद्रव्यत्वादिभेदाभावे खरविषाणादेर्जीवादिद्रव्यस्य विशेषः यतो न द्रव्य-क्षेत्र-काल-भावपर्याय-देश-संयोग-भेदरहितं वस्तु केनचित् प्रत्यक्षाद्यन्यतमप्रमाणेन अवगन्तुं शक्यम् ।।६० ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314