Book Title: Sammatitarka Prakaranam Part 1
Author(s): Siddhasen Divakarsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

Previous | Next

Page 282
________________ संमतितर्कप्रकरणे, काण्ड-३, गाथा-६९ २३७ अग्न्यादेरपि दाह्यदहनशक्त्यादिपर्यनुयोगोपपत्तेः । अत एव निरपेक्षा नैगमादयो दुर्नयाः सापेक्षास्तु सुनया उच्यन्ते । अभिहितार्थसंवादि चेदं वादिवृषभस्तुतिकृत्सिद्धसेनाचार्यवचनम् "नयास्तव स्यात्पदलाञ्छना इमे रसोपविद्धा इव लोहधातवः । भवन्त्यभिप्रेतफला यतस्ततो भवन्तमार्याः प्रणता हितैषिणः" [ ] इति । अथवा सांख्याद्येकान्तवादिदर्शनसमूहमयैकस्य चूर्णनस्वभावस्य मिथ्यादृष्टिपुरुषसमूहविघटनसमर्थस्य वा यद्वा मिथ्यादर्शनसमूहा नैगमादयः-एकैकस्य नैगमादेर्नयस्य शतविधत्वात् “एक्केको वि सयविहो” [आवश्यक नि० उवग्घायनि० गा० ३६] इत्याद्यागमप्रामाण्यात्-अवयवा यस्य तद् मिथ्यादर्शनसमूहमयम् जिनवचनस्य नैगमादयः सापेक्षाः सप्त अवयवास्तेषामपि एकैकः शतधा व्यवस्थितः इत्यभिप्रायः । [S.T.P.757] अथ प्रतिवादी अपि असाधनाङ्गस्य साधनाङ्गत्वेन उपादानात् स्वपक्षसिद्धिमकुर्वन् मिथ्याभिनिवेशी निगृह्यते इति चेत्, न; उभयोर्निग्रहप्राप्तेरित्युक्तत्वात् । तस्माद् “असाधनाङ्गवचनमदोषोद्भावनं द्वयोः । निग्रहस्थानमन्यद्धि न युक्तमिति नेष्यते” । [ ] इत्यादिवादन्यायलक्षणमेकान्तवादिनां सर्वमसंगतमुक्तन्यायात् सर्वस्य चैकान्तसाधनाङ्गत्वात् तस्य असत्त्वेन साधयितुमशक्यत्वात् अनेकान्तस्य च निर्दोषत्वेन तत्र दोषोद्भावनस्य अदोषोद्भावनरूपत्वात् दोषानुद्भावनस्य च निर्दोषे पराजयानधिकरणत्वात् तदुद्भावनस्यैव तत्र निग्रहार्हत्वात् इत्यलं पिष्टपेषणेन इति व्यवस्थितम् मिथ्यादर्शनसमूहमयत्वं मयिकत्वं वा । न विद्यते मृतं मरणं यस्मिन् असौ अमृतो मोक्षः तं सारयति गमयति प्रापयतीति वा तस्य अवन्ध्यमोक्षकारणत्वात् मोक्षप्रतिपादकत्वाञ्च । 'अमयसायस्स' वा इति पाठे अमृतवत् स्वाद्यते इति अमृतस्वादम् अमृततुल्यमिति यावत् । तथा रागाद्यशेषशत्रुजेतृपुरुषविशेषैरुच्यत इति जिनवचनम् तस्य अनेन विशिष्टपुरुषप्रणीतत्वनिबन्धनं प्रामाण्यं निगमयति । क्षीराश्रवाद्यनेकलब्ध्याद्यैश्वर्यादिमतो भगवत इत्यनेनापि विशेषणेन तस्य ऐहिकसंपद्विशेषजनकत्वमाह । संविग्नैः संसारभयोद्वेगाविर्भूतमोक्षाभिलाषैः अपकृष्यमाणराग-द्वेषाऽहंकारकालुष्यैः ‘इदमेव जिनवचनं तत्त्वम्' Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314