Book Title: Sammatitarka Prakaranam Part 1
Author(s): Siddhasen Divakarsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
________________
द्वितीयं परिशिष्टम्
२५७
व्याख्या
सिद्धम्
शब्दः साकारम् विशेषग्राहकम्,
सह आकारैर्ग्राह्यभेदैर्वर्त्तते यद् ग्राहकं तत् साकारं ज्ञानमित्युच्यते । २/१ प्रतिष्ठितम् - निष्टिातप्रामाण्यमिति यावत्
स्वमहिम्नैव नातः प्रकरणात् प्रतिष्ठाष्यम् । १/१ सिद्धाः
प्रमाणान्तरसंवादतो निष्टिाताः । १/१ सिद्धार्थाः प्रत्यक्षाऽनुमानादिप्रमाणविषयत्वेन प्रतिपादिताः शासनेन ये ते तद्विषयत्वेनैव
तैर्निष्टिाता इति सिद्धाः, ते च अर्यन्ते इति अर्था उच्यन्ते । १/१ सुखम्
अबाधास्वरूपम् । १/१८ सूत्रम्
अनेकार्थराशिसूचनात् सूते वाऽस्मादर्थराशिः शेते वाऽस्मिन्नर्थसमूहः श्रूयते
वाऽस्मादनेकोऽर्थ इति निरुक्तवशात् सूत्रम् । ३/६४ स्थानम् तिष्ठन्ति सकलकर्मक्षयावाप्तानन्तज्ञानसुखरूपाध्यासिताः शुद्धात्मानोऽस्मिन्निति
स्थानं लोकाग्रलक्षणं विशिष्टक्षेत्रम् । १/१ स्थापना
सङ्केताभिधानस्थार्थस्य प्रतिकृतिकल्पना स्थापनेति यद् वस्तु सद्भूताकारेण
स्थाप्यत इति णिजन्तात् कर्मणि 'यु'प्रत्ययः । १/६ स्थितिः
कालान्तरफलदातृत्वेन आत्मन्यवस्थानम् । १/१९ स्वपक्षप्रतिबद्धाः __ स्व आत्मीयः पक्षः अभ्युपगमस्तेन प्रतिबद्धाः प्रतिहताः । १/२१ हेतुवादागमः हिनोति गमयति अर्थमिति हेतुः, तत्परिच्छिन्नोऽर्थोऽपि हेतुः, तं वदति य आगमः
स हेतुवादः । ३/४३ प्रायोदृष्टिवादस्तस्य द्रव्यानुयोगत्वात् । ३/४४
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314