________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-६९
२३७
अग्न्यादेरपि दाह्यदहनशक्त्यादिपर्यनुयोगोपपत्तेः । अत एव निरपेक्षा नैगमादयो दुर्नयाः सापेक्षास्तु सुनया उच्यन्ते । अभिहितार्थसंवादि चेदं वादिवृषभस्तुतिकृत्सिद्धसेनाचार्यवचनम्
"नयास्तव स्यात्पदलाञ्छना इमे रसोपविद्धा इव लोहधातवः ।
भवन्त्यभिप्रेतफला यतस्ततो भवन्तमार्याः प्रणता हितैषिणः" [ ] इति । अथवा सांख्याद्येकान्तवादिदर्शनसमूहमयैकस्य चूर्णनस्वभावस्य मिथ्यादृष्टिपुरुषसमूहविघटनसमर्थस्य वा यद्वा मिथ्यादर्शनसमूहा नैगमादयः-एकैकस्य नैगमादेर्नयस्य शतविधत्वात्
“एक्केको वि सयविहो” [आवश्यक नि० उवग्घायनि० गा० ३६] इत्याद्यागमप्रामाण्यात्-अवयवा यस्य तद् मिथ्यादर्शनसमूहमयम् जिनवचनस्य नैगमादयः सापेक्षाः सप्त अवयवास्तेषामपि एकैकः शतधा व्यवस्थितः इत्यभिप्रायः । [S.T.P.757]
अथ प्रतिवादी अपि असाधनाङ्गस्य साधनाङ्गत्वेन उपादानात् स्वपक्षसिद्धिमकुर्वन् मिथ्याभिनिवेशी निगृह्यते इति चेत्, न; उभयोर्निग्रहप्राप्तेरित्युक्तत्वात् । तस्माद्
“असाधनाङ्गवचनमदोषोद्भावनं द्वयोः । निग्रहस्थानमन्यद्धि न युक्तमिति नेष्यते” । [ ] इत्यादिवादन्यायलक्षणमेकान्तवादिनां सर्वमसंगतमुक्तन्यायात् सर्वस्य चैकान्तसाधनाङ्गत्वात् तस्य असत्त्वेन साधयितुमशक्यत्वात् अनेकान्तस्य च निर्दोषत्वेन तत्र दोषोद्भावनस्य अदोषोद्भावनरूपत्वात् दोषानुद्भावनस्य च निर्दोषे पराजयानधिकरणत्वात् तदुद्भावनस्यैव तत्र निग्रहार्हत्वात् इत्यलं पिष्टपेषणेन इति व्यवस्थितम् मिथ्यादर्शनसमूहमयत्वं मयिकत्वं वा । न विद्यते मृतं मरणं यस्मिन् असौ अमृतो मोक्षः तं सारयति गमयति प्रापयतीति वा तस्य अवन्ध्यमोक्षकारणत्वात् मोक्षप्रतिपादकत्वाञ्च । 'अमयसायस्स' वा इति पाठे अमृतवत् स्वाद्यते इति अमृतस्वादम् अमृततुल्यमिति यावत् । तथा रागाद्यशेषशत्रुजेतृपुरुषविशेषैरुच्यत इति जिनवचनम् तस्य अनेन विशिष्टपुरुषप्रणीतत्वनिबन्धनं प्रामाण्यं निगमयति । क्षीराश्रवाद्यनेकलब्ध्याद्यैश्वर्यादिमतो भगवत इत्यनेनापि विशेषणेन तस्य ऐहिकसंपद्विशेषजनकत्वमाह । संविग्नैः संसारभयोद्वेगाविर्भूतमोक्षाभिलाषैः अपकृष्यमाणराग-द्वेषाऽहंकारकालुष्यैः ‘इदमेव जिनवचनं तत्त्वम्'
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org