SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २३८ संमतितर्कप्रकरणे, काण्ड-३, गाथा-६९ इत्येवं सुखेन अवगम्यते यत् तत् संविग्नसुखाभिगम्यम् । एतेनापि विशिष्टबुद्ध्यातिशयसंवित्समन्वितयतिवृषनिषेव्यत्वमस्य प्रतिपादयति । एवंविधगुणाध्यासितस्य जिनवचनस्य सामायिकादिबिन्दुसारपर्यन्तश्रुताम्भोधेः कल्याणमस्तु इति प्रकरणसमाप्तौ अन्त्यमङ्गल संपादनार्थं विशिष्टां स्तुतिमाह । ___ इति तत्त्वबोधविधायिन्यां सन्मतिटीकायां तृतीयं काण्डं समाप्तम् । इति कतिपयसूत्रव्याख्यया यद् मयाऽऽप्तं कुशलमतुलमस्मात् सन्मते व्यसाथैः । भवभयमभिभूय प्राप्यतां ज्ञानगर्भ विमलमभयदेवस्थानमानन्दसारम् ।। पुष्यद्वाग्दानवादिद्विरदघनघटाकुण्ठधीकुम्भपीठप्रध्वंसोद्भूतमुक्ताफलविशदयशोराशिभिर्यस्य तूर्णम् । गन्तुं दिग्दन्तिदन्तच्छलनिहितपदं व्योमपर्यन्तभागान् स्वल्पब्रह्माण्डभाण्डोदरनिबिडभरोत्पिण्डितैः संप्रतस्थे ।। प्रद्युम्नसूरेः शिष्येण तत्त्वबोधविधायिनी । तस्यैषाऽभयदेवेन सन्मतेर्विवृतिः कृता ।। अङ्कतो ग्रन्थप्रमाणम् २५००० ।। प्रवादिमदमर्दनप्रकटसन्मतिव्याजतो निवेशितजगत्त्रयस्फुरितसान्द्रकीर्तिद्रुमः । समस्तजगतीतले गुणवतां शिरःशेखरो जयत्यतुलवागभयदेवसूरिः प्रभु ।। [S.T.P.761] Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002563
Book TitleSammatitarka Prakaranam Part 1
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages314
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy