________________
संमतितर्कप्रकरणे, काण्ड - ३, गाथा - ६८-६९
भयेभ्यो मुच्यते सज्ज्ञानविकलत्वात् प्रदीपनकभयप्रपलायमानान्धवत् । तथा चागमः
" हयं णाणं कियाहीणं हया अण्णाणओ किया ।
पासंतो पंगुलो डड्डो धावमाणो य अंधओ" ।। [आवश्यकनि० पढमाव० गा० २२]
२३६
उभयसद्भावस्तु ‘तेभ्यो मा भैषीः' इति दर्शयितुं समर्थः । तथाहि - सम्यग्ज्ञान-क्रियावान् भयेभ्यो मुच्यते उभयसंयोगवत्त्वात् प्रदीपनकभयान्धस्कन्धारूढपङ्गुवत् । उक्तं च
“संजोगसिद्धीए फलं वयंति” [आवश्यकनि० पढमाव० गा० २३] इत्यादि ।
तस्मात् सम्यग्ज्ञानादित्रितयनयसमूहाद् मुक्तिः नयसमूहविषयं च सम्यग्ज्ञानम् श्रद्धानं च तद्विषयं सम्यग्दर्शनम् तत्पूर्वं च अशेषपापक्रियानिवृत्तिलक्षणं चारित्रम्-प्रधानोपसर्जनभावेन मुख्यवृत्त्या वा-तत् त्रितयप्रदर्शकं च वाक्यमागमो नान्यः एकान्तप्रतिपादकस्य असदर्थत्वेन विसंवादकतया तस्य प्राधान्यानुपपत्तेः जिनवचनस्य तु तद्विपर्ययेण दृष्टवद् अदृष्टार्थेऽपि प्रामाण्यसंगतेः । । ६८ ।।
[ अनेकान्तमयत्वेन जिनवचनस्य स्तवनं पार्यन्तिकमङ्गलविधानं च ] तस्य तथाभूतस्य स्तुतिप्रतिपादनाय मङ्गलार्थत्वात् प्रकरणपरिसमाप्तौ गाथासूत्रमाह
भद्दं मिच्छादंसणसमूहमइयस्स अमयसारस्स । जिणवयणस्स भगवओ संविग्गसुहाहिगम्मस्स ।। ६९ ।।
भद्रं कल्याणम् जिनवचनस्य अस्तु इति संबन्ध: मिथ्यादर्शनसमूहमयस्य; ननु यद् मिथ्यादर्शनसमूहमयं तत् कथं सम्यग्रूपतामासादयति ? न हि विषकणिकासमूहमयस्य अमृतरूपतापत्तिः प्रसिद्धा, न; परस्परनिरपेक्षसंग्रहादिनयरूपापन्नसांख्यादिमिथ्यादर्शनानां परस्परसव्यपेक्षतासमासादितानेकान्तरूपाणां विषकणिकासमूहविशेषमयस्य अमृतसंदोहस्येव सम्यक्त्वापत्तेः । दृश्यते हि विषादयोऽपि भावाः परस्परसंयोगविशेषसमासादितपरिणत्यन्तरा अगदरूपतामात्मसात्कुर्वाणाः मध्वाज्यप्रभृतयस्तु विशिष्टसंयोगावाप्तद्रव्यान्तरस्वभावा मृतिप्राप्तिनिमित्तविषयरूपतामासादयन्तः । न च अध्यक्षप्रसिद्धार्थस्य पर्यनुयोगविषयता अन्यथा
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org