Book Title: Sammatitarka Prakaranam Part 1
Author(s): Siddhasen Divakarsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

Previous | Next

Page 296
________________ द्वितीयं परिशिष्टम् संमतितर्कप्रकरणे तर्कपञ्चाननश्रीमदभयदेवसूरिकृतटीकागतानि विशिष्टशब्दानि शब्दः व्याख्या अचक्षुदर्शनम् इन्द्रियाणामविषये परमाण्वादौ अर्थे मनसा ज्ञानमेव सद् अचक्षुर्दर्शनम् । २/२५ अनाकारम् सामान्यग्राहकम्, अविद्यमान आकारः भेदो ग्राह्यस्य अस्य इति अनाकारं दर्शनमुच्यते । २/१ अनियमः अनेकान्तः । ३/३३ अनुत्पन्नमविनष्टम् आकालं स्थितिस्वभावम् । १/११ अनुपमसुखम् न विद्यते उपमा स्वाभाविकात्यन्तिकत्वेन सकलव्याबाधारहितत्वेन च सर्वसुखातिशायित्वाद् यस्य तत् सुखमानन्दरूपं यस्मिंस्तत् अनुपमसुखम् । १/१ अन्योन्यनिश्रिताः परस्परापरित्यागेन व्यवस्थिताः । १/२१ । अर्थः अर्यत इति अर्थः साक्षात्तस्याऽभिधेयो गम्यष्टा सामर्थ्यात् । ३/६४ अर्थगत्या व्यक्तिम् सकलवस्तुव्याप्यनेकान्तात्मकैककेवलावबोधप्रभवद्वादशाङ्गकश्रुतस्कन्धा विरोधेन व्याख्याम् । २/१८ अर्थनयः यो ह्यर्थमाश्रित्य वक्तृस्थः संग्रह-व्यवहार-ऋजुसूत्राख्यः प्रत्ययः प्रादुर्भवति सोऽर्थनयः, अर्थवशेन तदुत्पत्तेः अर्थं प्रधानतयासौ व्यवस्थापयतीति कृत्वा । १/३८ अर्थनियतः अर्थनयनिबन्धनः । १/३० अर्थपर्यायाः अर्थग्राहकाः संग्रह-व्यवहार-ऋजुसूत्राख्याः तग्राह्या वा अर्थभेदाः । १/३१ अर्थपर्यायः अर्थं विषयं पर्येति अवगच्छति यः सोऽर्थपर्यायः ईदृग्भूतार्थग्राहकत्वमित्यर्थः । २/१ अर्थसम्पादनः तद्विषयप्रमाण-नयस्वरूपावधारणम् । ३/६५ अर्थान्तरम् नानास्वभावम् । ३/३५ अर्पितम् प्रतिपादयितुमभीष्टम् । १/४२ अमृतः न विद्यते मृतं मरणं यस्मिन् असौ अमृतः मोक्षः । ३/६९ असद्भूतम् असत्यम् । ३/५९ अवक्तव्यम् तथाभूतस्य वस्तुनोऽभावात् प्रतिपादकवचनातीतत्वात्, वचनस्य वा तथाभूतस्याभावाद् अवक्तव्यम् । १/३६ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314