Book Title: Sammatitarka Prakaranam Part 1
Author(s): Siddhasen Divakarsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा - ५६-५७
किञ्च, एकान्तवाद्युपन्यस्तहेतोः किं सामान्यं साध्यम्, आहोस्विद् विशेषः उत उभयं परस्परविविक्तम्, उतस्विद् अनुभयमिति विकल्पाः । तत्र न तावत् सामान्यम् केवलस्य तस्य असंभवात् अर्थक्रियाकारित्वविकलत्वाच्च । नापि विशेषः तस्य अननुयायित्वेन साधयितुमशक्यत्वात् । नापि उभयम् उभयदोषानतिवृत्तेः । नापि अनुभयम् तस्य असतो हेत्वव्यापकत्वेन साध्यत्वायोगात् । एतदेव आह गाथापष्टार्थेन - अन्योन्यप्रतिक्रुष्टौ प्रतिक्षिप्तौ द्वावपि एतौ सामान्य- विशेषैकान्तौ असद्वादाविति । इतर विनिर्मुक्तस्य एकस्य शशशृङ्गादेरिव साधयितुमशक्यत्वात् ।। ५६ । । [S.T.P. 725]
२२२
-: शास्त्रवार्त्तासमुच्चये :
:
स्याद्वादकल्पलताटीकायां स्त. ७, गा. २४
किञ्च, परः साध्यं साधयन् न तावत् सामान्यं साधयेत्, केवलस्य तस्याऽसंभवात् । नापि विशेषम्, तस्याननुयायित्वेन साधयितुमशक्यत्वात् । न च सामान्योपरागेण विशेषस्याप्यनुयायित्वम्, समवायनिषेधेन तदुपरागाऽसिद्धेः 'पर्वतो जातिमद्वान्' इत्यादावतिप्रसङ्गाच्च । नाप्युभयम्, उभयदोषाऽनतिवृत्तेः । नाप्यनुभयम्, तस्याऽसत्त्वात् इत्याद्यूह्यम् । तदिदमुक्तम्- [सम्मतौ]
“साहम्मओ व्व अत्थं साहिज्ज परो विहम्मओ वा वि ।
अन्नोन्नं पडिकुट्टा दो व अ एए असव्वाया " ।। ३ / ५६ ।। इति । [ परस्परभिन्नं सामान्य-विशेषयोः स्वरूपमनूद्य तस्य निराकरणम् ] सामान्य-विशेषयोः स्वरूपं परस्परविविक्तमनूद्य निराकुर्वन् आहदव्वट्ठियवत्तव्वं सामण्णं पज्जवस्स य विसेसो । एए समोवणीआ विभज्जवायं विसेसेंति ।। ५७ ।। द्रव्यास्तिकस्य वक्तव्यं वाच्यम् विशेषनिरपेक्षं सामान्यमात्रम्, पर्यायास्तिकस्य पुनः अनुस्यूताकारविविक्तो विशेष एव वाच्यः एतौ च सामान्यविशेषौ अन्योन्यनिरपेक्षौ एकैकरूपतया परस्परप्राधान्येन वा एकत्र उपनीतौ प्रदर्शितौ विभज्यवादम् अनेकान्तवादं सत्यवादस्वरूपम् अतिशयाते असत्यरूपतया ततस्तौ अतिशयं लभेते इति यावत्-विशेषे साध्ये
1. दोण्णवि (संमति ) ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314